SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वचनप्रकृते सूत्रम् १ च मासलघु । इतरोऽपि ब्रूते-अहमपि त्वया तदानीं किं स्तोकं भणितः?; एवमुक्त उत्पादकः प्राह-यदि तदानीं त्वमभणिष्यस्तदा किमहमेवमेव त्वाममोक्ष्यम् !; एवमधिकरणमुत्पन्नमुच्यते, तत्र द्वयोरपि चतुर्लघु । सम्बद्धं नाम-वचसा परस्परमाक्रोशनं कर्तुमारब्धं तत्र चतुर्गुरु। कर्कशं नाम-तटस्थितैरुपशम्यमानावपि नोपशाम्यतस्तदा षड्लघु । "बाहु" ति रोषभरपर6वशतया बाहूबाहवि युद्धं कर्तुं लग्नौ तत्र षड्गुरुकाः । आवर्तना नाम-एकेनापरो निहत्य पातितस्तत्र च्छेदः । योऽसौ निहतः स मूच्र्छा यदि प्राप्तस्तदा मूलम् । मारणान्तिकसमुद्धाते समवहतेऽनवस्थाप्यम् । अतिपातना-मरणं तत्र पाराश्चिकम् ॥ ६११९ ॥ ६१२० ॥ अथ द्वितीयपदमाह पढम विगिचणट्ठा, उवलंभ विविंचणा य दोसु भवे । अणुसासणाय देसी, छटे य वगिचणा भणिता ॥ ६१२१ ॥ 'प्रथमम्' अलीकवचनमयोग्यशैक्षस्य विवेचनार्थं वदेत् । 'द्वयोस्तु' हीलित-खिसितवचनयोर्यथाक्रममुपालम्भ-विवेचने कारणे भवतः, शिक्षादानमयोग्यशैक्षपरित्यागश्चेत्यर्थः । परुषवचनं तु खरसाध्यस्यानुशासनां कुर्वन् ब्रूयात् । गृहस्थवचनं पुनः 'देशी' देशभाषामाश्रित्य भणेत् । 'षष्ठे च' व्यवशमितोदीरणवचने शैक्षस्य विवेचनं कारणं भणितम् । गाथायां स्त्रीत्वनिर्देशः 15 प्राकृतत्वादिति द्वारगाथासमासार्थः ॥ ६१२१ ॥ अथैनां विवरीषुराह कारणियदिक्खितं तीरियम्मि कजे जहंति अणलं तू । संजम-जसरक्खट्टा, होटं दाऊण य पलादी ॥ ६१२२ ॥ कारणे-अशिवादौ अनल:-अयोग्यः शैक्षो दीक्षितः, ततः 'तीरिते' समापिते तस्मिन् कायें तं अनलं 'जहन्ति' परित्यजन्ति । कथम् ? इत्याह--'संयम-यशोरक्षार्थ संयमस्य प्रवचनयशः20 प्रवादस्य च रक्षणार्थ 'होढं' गाढमलीकं दत्त्वा पलायन्ते, शीघ्रमन्यत्र गच्छन्तीत्यर्थः॥६१२२॥ यः पुनराचार्यः सामाचार्या सारणादिप्रदाने वा सीदति तमुद्दिश्येत्थं हीलितवचनं वदेत् केणेस गणि त्ति कतो, अहो! गणी भणति वा गणिं अगणि। एवं विसीतमाणस्स कुणति गणिणो उवालंभं ॥ ६१२३ ॥ केनासमीक्षितकारिणैष गणी कृतः ?, यद्वा अहो! अयं गणी, अथवा गणिनमप्यगणिनं 25 भणति । एवं गणिनः सामाचार्या शिक्षादाने वा विषीदत उपालम्भं करोति ॥ ६१२३ ॥ अगणिं पि भणाति गणिं, जति नाम पढेज गारवेण वि ता। एमेव सेसएसु वि, वायगमादीसु जोएज्जा ॥ ६१२४ ॥ यदि कोऽपि बहुशोऽपि भण्यमानो न पठति ततस्तमगणिनमपि गणिनं भणति यदि नाम गौरवेणापि पठेत् । एवमेव शेषेष्वपि वाचकादिषु पदेषु द्वितीयपदं 'योजयेत्' योजनां 50 कुर्यात् ॥ ६१२४ ॥ १ गतं व्यवशमितोदीरणवचनम् । अथ द्विती° इतिरूपमवतरणं का० ॥ २ ति नियुक्तिगाथासमासार्थः॥ ६१२१ ॥ अथैनामेव भाप्यकारो विवरीषु कां० ॥ ३ 'वाचकादिषु' वाचक-यहुश्रुत-मेधाविप्रभृतिषु पदेषु कां ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy