________________
१६१६
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ वचनप्रकृते सूत्रम् १
प्रवर्तिनी प्रभृतिका मालपति सा च तूष्णीकादीनि पदानि करोति ततः प्रवर्तिन्या लघुपञ्चदशकादिकं चतुर्गुरुकान्तम्, अभिषेकाया गुरुदशकादिकं चतुर्लघुकान्तम्, भिक्षुण्या लघुदशकादिकं मासगुरुकान्तम्, स्थविराया गुरुपञ्चकादिकं मासलघुकान्तम्, क्षुल्लिकाया लघुपञ्चकादिकं गुरुभिन्नमासान्तं मन्तव्यम् । अत एवाह -- "गुरु-लहुपणगाइ दो इयर" ति 'इतरे' स्थविरा - क्षुल्लिके तयोर्द्वयोरपि यथाक्रमं गुरुपञ्चकादिकं लघुपञ्चकादिकं च प्रायश्चित्तं भवति ॥ ६१११ ॥ इह परूपग्रहणेन निर-कर्कशे अपि सूचिते, ततस्तयोः प्रायश्चित्तं दर्शयितुं परुषस्य च प्रकारान्तरेण शोधिमभिधातुमाह
लहुओ य लहुसगम्मि, गुरुगो आगाढ फरुस वयमाणे । रि-कक्कसवणे, गुरुगा य पतोसओ जं च ।। ६११२ ॥
10
'लहुसके' स्तोके परुषवचने सामान्यतोऽभिधीयमाने मासलघु । आगाढपरुषं वदतो मासगुरु । निष्ठुरवचने कर्कशवचने चत्वारो गुरवः । यच्च ते परुषं भणिताः प्रद्वेषतः करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम् ॥ ६११२ ॥
15
अथ किमिदं निष्ठुरं ? किं वा कर्कशम् ? इत्याशङ्कावकाशं विलोक्याssह
निव्वेद पुच्छितम्मि, उन्भामइल त्ति णिङ्कुरं सव्वं ।
मेहुण संस ककसाइँ णिव्वेग साहेति ।। ६११३ ॥
कयाऽपि महेलया कोऽपि साधुः पृष्टः - केन निर्वेदेन त्वं प्रत्रजितः ? । स प्राह - मदीया भोजिका ‘उद्भामिका' दुःशीला अतोऽहं प्रव्रजितः । एवमादिकं सर्वमपि निष्ठुरमुच्यते । तथा 'मैथुने 'संसृष्टं' विलीनभावं दृष्ट्वा प्रव्रजितोऽहम् । एवं निर्वेदं यत् कथयति तदेवमादीनि वचांसि कर्कशानि मन्तव्यानि ॥ ६११३ ॥ इदमेव व्याचष्टे -
मयं व जं होह रयावसाणे, तं चिकणं गुज्झ मलं झरंतं ।
अंगेसु अंगाइँ णिगूहयंती, णिव्वेयमेयं मम जाण सोमे ! ॥ ६११४ ॥ सखेदणीसह विमुकगत्तो, भारेण छिन्नो ससई व दीहं । हीओ मि जं आसि रयावसाणे, अणेगसो तेण दमं पवण्णो ॥ ६११५॥ यद् रतावसाने मृतमिव भवति तदेवंविधं गुह्यं चिक्कणं मलं 'क्षरत् ' परिगलद्, भार्या 25 चात्मीयेष्वङ्गेषु आत्मीयान्येवाङ्गानि जुगुप्सनीयतया निगूहयन्ती मया दृष्टा, एतद् मे 'निर्वेदं ' निर्घेदकारणं हे सौम्ये ! जानीहि ॥ ६११४ ॥ तथा—
सखेदं “नीसढुं” अत्यर्थं विमुक्तगात्रः शिथिलीकृताङ्गो भारेण 'छिन्नः' त्रुटितो भार - वाहको यथा दीर्घं निःश्वसिति तथाऽहमपि रतावसाने यदनेकश एवंविधः 'आसम् ' अभूवं तद् अतीव 'हीतः' लज्जितः, एतेन निर्वेदेन 'दमं' संयमं पाठान्तरेण व्रतं वा प्रपन्नोऽहम् ॥६११५॥
20
१ 'वति ॥ ६१११ ॥ तदेवं दर्शितं परुषवचनविषयं प्रायश्चित्तनिकुरुम्बम् । इह च परुष' कां० ॥ २ 'नो व ससं व ताभा० ॥ ३ 'ण वतं प' ताभा० ॥ ४ स साधुस्तया पृष्टः सन् इत्थमात्मीयं निर्वेदमाह - यद् रता कां० ॥ ५ 'हमिति । एवमादिकं निर्वेदं यत् कथयति तत् कर्कशवचनं मन्तव्यम् ॥ ६११५ ॥ कां० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org