________________
भाष्यगाथाः ६१०९-११] षष्ठ उद्देशः ।
१६१५ तेनैव चारणिकाक्रमेण तावद् नेयं यावद् उपाध्यायेनाचार्यस्य निसृष्टस्य 'किमेतावदारटसि ?' इतित्रुवाणस्यानवस्थाप्यम् । अथोपाध्याय उपाध्यायमालपति तत आलप्तादिषु पञ्चसु पदेषु तूष्णीकतादिभिः पद्भिः पदैः प्रत्येकं चार्यमाणैर्लघुभिन्नमासादारब्धं मूले तिष्ठति । एवमुपाध्यायेनैव भिक्षोरालप्तादिषु पदेषु तूष्णीकतादिभिरेव पदैर्गुरुविंशतिरात्रिन्दिवादारब्धं छेदान्तम् , स्थविरस्य लघुविंशतिरात्रिन्दिवादारब्धं पगुरुकान्तम् , क्षुल्लकस्य गुरुपञ्चदशरात्रिन्दिवादारब्धं । षड्लघुकान्तं द्रष्टव्यम् । यदा तु भिक्षुराचार्यादीनालपति तदा ततः-उपाध्यायादेकेन पदेन हीनो भवति, सर्वचारणिकाप्रयोगेण लघुपञ्चदशरात्रिन्दिवादारब्धं प्रायश्चित्तं मूले तिष्ठतीत्यर्थः । यदा तु स्थविर आलपति तदा ततः-भिक्षोरेकेन पदेन हीनो भवति, सर्वचारणिकाप्रयोगेण गुरुदशरात्रिन्दिवादारब्धं छेदे तिष्ठतीत्यर्थः । यदा तु क्षुल्लक आचार्यादीनालपति तदा सोऽप्येकेन पदेन हीनो भवति । तद्यथा-क्षुल्लक आचार्यमालपति यदि आचार्यस्तूष्णीका- 10 दीनि पदानि करोति तत आलप्तादिषु पञ्चसु पदेषु लघुविंशतिरात्रिन्दिवादारब्धं षड्गुरुके तिष्ठति । एवं क्षुल्लकेनैवोपाध्यायस्यालप्तादिषु पदेषु तूष्णीकतादिभिः षभिः पदैः प्रत्येकं चार्यमाणैर्गुरुपञ्चदशकादारब्धं षड्लघुकान्तम् , भिक्षोलघुपञ्चदशकादारब्धं चतुर्गुरुकान्तम् , स्थविरस्य गुरुदशकादारब्धं चतुर्लघुकान्तम् , क्षुल्लकस्य लघुदशकादारब्धं मासगुरुकान्तं प्रायश्चित्तं भवति । एवं सर्वचारणिकाप्रयोगेण लघुदशकादारब्धं षड्गुरुके तिष्ठतीति ॥ ६११० ॥ 13 एवं तावन्निर्ग्रन्थानामुक्तम् । अथ निर्ग्रन्थीनामतिदिशन्नाह
भिक्खुसरिसी तु गणिणी, थेरसरिच्छी तु होइ अभिसेगा।।
भिक्खुणि खुड्डसरिच्छी, गुरु-लहुपणगाइ दो इयरा ॥ ६१११॥ इह निर्ग्रन्थीवर्गेऽपि पञ्च पदानि, तद्यथा-प्रवर्तिनी अभिषेका भिक्षुणी स्थविरा क्षुल्लिका च। तत्र 'गणिनी' प्रवर्तिनी सा भिक्षुसहशी मन्तव्या। किमुक्तं भवति?-प्रवर्तिनी प्रवर्तिनी-20 प्रभृतीनां पञ्चानामन्यतमामालप्तादिभिः प्रकारैरालपति, सा चाऽऽलप्यमाना तूष्णीकादिपदषट्कं करोति ततो भिक्षावालपति यदाचार्यादीनां प्रायश्चित्तमुक्तं तत् तासां प्रवर्तिनीप्रभृतीनां मन्तव्यम् । अथाभिषेका प्रवर्तिन्यादीनामन्यतरामालपति सा च तूष्णीकादिपदानि करोति ततः स्थविरे आलपति यदाचार्यादीनां प्रायश्चित्तमुक्तं तत् तासां द्रष्टव्यम् , अत एवाहस्थविरसदृक्षा अभिषेका भवति । अथ भिक्षुणी प्रवर्तिनीप्रभृतिकामालपति सा च तुष्णी-25 कादीनि करोति ततः क्षुल्लके आलपति यदाचार्यादीनां प्रायश्चित्तमुक्तं तत् तासामपि यथाक्रम ज्ञेयम् , अत एवाह-भिक्षुणी क्षुल्लकसदृशी । अथ स्थविरा प्रवर्तिनीप्रभृतिकामालपति ततः प्रवर्तिन्यास्तूष्णीकादिपदषटकं कुर्वाणाया गुरुपञ्चदशकादिकं षड्लघुकान्तम् , अभिषेकाया लघुपञ्चदशकादिकं चतुर्गुरुकान्तम् , भिक्षुण्या गुरुदशकादिकं चतुर्लघुकान्तम् , स्थविराया लघुदशकादिकं मासगुरुकान्तम् , क्षुल्लिकाया गुरुपञ्चकादिकं मासलघुकान्तं ज्ञेयम् । अथ क्षुल्लिका 30
१ ताश्चालप्यमानास्तूष्णीकतादिपदपटकं कुर्वन्ति ततो भिक्षावालपति यदाचार्यादीनां प्रायश्चित्तमुक्तं तत् तासां द्रष्टव्यम् । अथाभिषेकया आलपितादिप्रकारपञ्चकेन प्रवर्तिनीप्रभृतयः पश्चापि जल्पिताः सन्तस्तूष्णीकतादिपदपद्धं कुर्वन्ति ततः स्थविरे कां ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org