________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वचनप्रकृते सूत्रम् १ व्याहृतस्य तूष्णीकतादिषु पदेषु मासगुरुकादारब्धं छेदान्तं ज्ञेयम् ॥ ६१०७॥
व्यापारितस्य चतुर्लघुकादारब्धं मूलान्तम् । पृष्टस्य चतुर्गुरुकादारब्धं 'नवमम्' अनवस्थाप्यम् । 'निसृष्टस्य' 'इदं गृहाण, भुङ्क्ष' इत्यायुक्तस्य 'षट्ख पि' तूष्णीकादिपदेषु षड्लघुकादारब्धं
चरमं-पाराश्चिकं तदन्तं ज्ञातव्यम् ॥ ६१०८॥ एवमाचार्येणाचार्यस्यालप्तादिपदेषु शोधिरुक्ता। 5 अथाऽऽचार्येणैवालप्तादीनामुपाध्यायप्रभृतीनों शोधि दर्शयितुमाह
एवमुवज्झाएणं, भिक्खू थेरेण खुड्डएणं च ।
आलत्ताइपएहिं, इक्विकपयं तु हासिज्जा ॥ ६१०९॥ 'एवम्' आचार्यवदुपाध्यायेन भिक्षुणा स्थविरेण क्षुल्लकेन च समं आलप्तादिपदैः प्रत्येक तूष्णीकतादिप्रकारषट्के यथाक्रममेकैकं प्रायश्चित्तपदं हासयेत् । तद्यथा-आचार्य उपाध्याय10 मनुरूपेणाभिलापेनालपति ततो यदि उपाध्यायस्तूष्णीक आस्ते तदा गुरुभिन्नमासः, हुकार करोति मासलघु, एवं यावत् 'किमेतावन्मात्रमारटसि ?' इति भणतः षड्लघु । व्याहृतस्यैतेष्वेव तूष्णीकादिषु पदेषु लघुमासादारब्धं षड्गुरुकान्तम्, व्यापारितस्य गुरुमासादिकं छेदान्तम् , पृष्टस्य चतुर्लघुकादिकं मूलान्तम् , निसृष्टस्य चतुर्गुरुकादिकम नवस्थाप्यान्तं द्रष्टव्यम् । एवमाचार्येणैव भिक्षोरालप्तादिपु पदेणु लघुभिन्नमासादारब्धं मूलान्तम् , स्थविरस्य गुरुविंशतिरात्रि15 न्दिवादारब्धं छेदान्तम् , क्षुल्लकस्य लघुविंशतिरात्रिन्दिवादारब्धं पङ्गुरुकान्तं प्रायश्चित्तं प्रति
पत्तव्यम् ॥ ६१०९॥ एवं तावदाचार्यस्याचार्यादिभिः पञ्चभिः पदैः समं चारणि का दर्शिता । साम्प्रतमुपाध्यायादीनां चतुर्णामप्याचार्यादिपदपञ्चकेन चारणिकां दर्शयति
आयरियादभिसेगो, एकगहीणो तदिकिणा भिक्खू ।
थेरो तु तदिक्केणं, थेरा खुड्डो वि एगेणं ॥ ६११० ॥ 20 आचार्याद् 'अभिषेकः' उपाध्याय आलापादिपदानि कुर्वाणश्चारणिकायामेकेन प्रायश्चित्तपदेन हीनो भवति । तद्यथा-उपाध्याय आचार्यमालपति क्षमाश्रमणाः! कथं वर्तते ?' इत्यादि, एवमालप्त आचार्यस्तूष्णीक आस्ते भिन्नमासो गुरुकः, हुकारं करोति मासलघु, एवं
१ 'व्याहृतस्य तु' 'इत आगच्छत' इत्येवमाकारितस्य तूष्णीकतादिषु पदेपु मासगुरुकादारब्धं छेदान्तं ज्ञेयम् ॥ 'व्यापारितस्य' 'इदं कुरु इदं मा कुरु' इति नियुक्तस्य चतुलघुकादारब्धं मूलान्तम् । 'पृष्टस्य' 'किं कृतम् ? किं वा न कृतम्' इत्यादिपर्यनुयुक्तस्य चतगुरुकादारब्धं कां० ॥ २ °त्याद्यादिष्टस्य ‘प कां ॥ ३ ‘णालपितादेराचार्यस्य तूष्णीकतादिपदेषु कां० ॥ ४ °नां तूष्णीकतादिपदेषु शो कां ॥ ५°धु, 'क्रिम्' इति भापते मासगुरु । 'किं चटकरं करोपि?' इति त्रुवाणस्य चतुर्लधु । 'किं निवृतिं न ददासि ?' इति जल्पतश्चतुर्गुरु । 'किमेताव° कां० ॥ ६ °षु प्रत्येकं तूष्णीकतादिभिः पदैर्लघु का० ॥ ७ मासलघु, 'किम् ?' इति भाषते मासगुरु, 'किं चटकरं करोपि ?' इति भणति चतुर्लघु, "किं निवृतिं न ददासि ?' इति ब्रुवतश्चतुर्गुरु, 'कियद्वाऽऽरटसि ?' इति जल्पतः पडूलघु । एवं व्याहृत-व्यापारित-पृष्ट-निसृष्टपदेष्वपि यथाक्रमं मासलघु-मासगुरु-चतुलघु-चतुर्गुरुकप्रारब्धमनेनैव चारणिका' का ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org