________________
भाष्यगाथाः ६१००-८] षष्ठ उद्देशः ।
ततश्चण्डरुद्रस्योपस्थितः-प्रव्राजयत मामिति । ततस्तेनोक्तम्-'भूति' क्षारमानय । ततस्तेन भूतावानीतायां लोचं कृत्वा दीक्षितः । ततस्तदीयानि मित्राणि 'कन्दित्वा' प्रभूतं रुदित्वा खस्थानं गतानि । वृत्ते च समवसरणे चण्डरुद्रेण शैक्षो भणितः-पन्थानं प्रत्युपेक्षख येन प्रभाते बजामः । ततः प्रत्युपेक्षिते पथि प्रभाते पुरतः शैक्षः पृष्ठतश्चण्डरुद्रः "वय" ति व्रजति । स च शैक्षो गच्छन् स्थाणावास्फिटितः। ततश्चण्डरुद्रो रुष्टः 'दुष्टशैक्षः' इति भणन्। शिरसि दण्डकेन ताडयति । शैक्षो मिथ्यादुष्कृतं करोति भणति च–सम्यगायुक्तो गमिप्यामि । ततश्चण्डरुद्रस्तदीयोपशमेनावृत्तश्चिन्तयति-अहो ! अस्याभिनवदीक्षितस्यापि कियान् शमप्रकर्षः ? मम तु मन्दभाग्यस्य चिरप्रव्रजितस्याप्येवंविधः परमकोटिमुपगतः क्रोधः, इति परिभावयतः क्षपकश्रेणिमधिरूढस्य केवलज्ञानमुत्पेदे ॥ ६१०४ ॥
एवं चण्डरुद्रस्य 'दुष्टशैक्षः' इत्यादिभणनमिव परुषवचनं मन्तव्यम् । अथ 'आलप्तादिषु 10 पदेषु परुषं भवति' इति यदुक्तं तस्य व्याख्यानमाह
तुसिणीए हुंकारे, किं ति व किं चडगरं करेसि त्ति ।
किं णिव्वुर्ति ण देसी, केवतियं वा वि रडसि त्ति ॥ ६१०५॥ आचार्यादिभिरालप्तो व्याहृतो व्यापारितः पृष्टो निसृष्टो वा तूष्णीको भवति, हुकारं वा करोति, 'किम् ?' इति वा भणति, "किं वा चटकर करोषि ?' इति ब्रवीति, 'किं निर्वृतिं न 15 ददासि ?' इति ब्रूते, 'कियद्वा रटिष्यसि ?' इति भणति । एते सर्वेऽपि परुषवचनप्रकाराः ॥ ६१०५॥ अथैतेष्वेव प्रायश्चित्तमाह
मासो लहुओ गुरुओ, चउरो मासा हवंति लहु-गुरुगा।
छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ।। ६१०६ ॥ लघुको मासो गुरुको मासश्चत्वारो मासा लघवश्चत्वारो मासा गुरवः षण्मासा लघवः 20 षण्मासा गुरवः छेदो मूलं तथा 'द्विकम्' अनवस्थाप्यं पाराञ्चिकं चेति ॥ ६१०६ ॥ एतदेव प्रायश्चित्तं चारणिकया गाथाद्वयेन दर्शयति
आयरिएणाऽऽलत्तो, आयरितो चेव तुसिणितो लहुओ। रडसि त्ति छग्गुरुंतं, वाहितें गुरुगादि छेदंतं ॥ ६१०७॥ लहुगाई वावारित, मूलंतं चतुगुरुगाइ पुच्छिए णवमं ।
णीसह छसु पतेसू , छल्लहुगादी तु चरिमंतं ॥ ६१०८॥ आचार्येण आलप्त आचार्य एव तूष्णीको भवति मासलघु । अथ हुकारादिकं रटसीति पर्यन्तं करोति तदा षड्गुरुकान्तम् । तद्यथा-हुकारं करोति मासगुरु, 'किम् ?' इति भाषते न 'मस्तकेन वन्दे' इति ब्रवीति चतुर्लघु, 'किं चटकरं करोषि ?' इति ब्रुवाणस्य चतुर्गुरु, 'किं निर्वृतिं न ददासि ?' इति भाषमाणस्य षड्लघु, 'कियन्तं वा कालं रटसि ?' इति ब्रुवतः षड्गुरु । 30
१'राः । इह च परेणाभाषितस्य यत् तूष्णीकत्वं तत् तस्यासमाधाननिवन्धनतया परुषवचनमिव परुषवचनमित्युपमानाद् द्रष्टव्यम् ॥ ६१०५॥ अथै का० ॥ २°चार्यः 'आर्य ! वर्ततेऽनाबाधं भवताम्' इत्युक्तः सन् एव तूष्णी का० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org