SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [वचनप्रकृते सूत्रम् १ पश्चाद् भणिप्यत इत्यर्थः । लौकिकं तु परुषवचनमिदानीमेव वक्ष्ये । तत्र चेदं ज्ञातं भवति ॥६०९९॥ अन्नोन समणुरत्ता, वाहस्स कुटुंबियस्स वि य धूया । तासिं च फरुसवयणं, आमिसपुच्छा समुप्पण्णं ॥ ६१००॥ 5 व्याधस्य कुटुम्बिनोऽपि च "धूताः" दुहितरौ अन्योन्यं समनुरक्ते, परस्परं सख्यौ इत्यर्थः । तयोश्च परुषवचनमामिषपृच्छया समुत्पन्नम् ॥ ६१०० ।। कथम् ? इति चेद् उच्यते केणाऽऽणीतं पिसियं, फरसं पुण पुच्छिया भणति वाही। किं खू तुमं पिताए, आणीतं उत्तरं वोच्छं ॥६१०१॥ व्याधदुहित्रा पुद्गलमानीतम् , ततः कुटुम्बिदुहित्रा सा भणिता—केनेदं पिशितमानीतम् । 10 ततो 'व्याधी' व्याधदुहिता पृष्टा सती परुषवचनं भणति-किं खु? त्वदीयेन पित्राऽऽनीतम् । कुटुम्बिदुहिता भणति-किं मदीयः पिता व्याधः येन पुद्गलमानयेत् ! । एवं लौकिकं परुषवचनम् । अथ 'उत्तरं' लोकोत्तरिकं वक्ष्ये ॥ ६१०१ ॥ प्रतिज्ञातमेवाह फरुसम्मि चंडरुद्दो, अवंति लाभे य सेह उत्तरिए । आलत्ते वाहिते, वावारिय पुच्छिय णिसिट्टे ॥ ६१०२ ॥ 15 परुषवचने चण्डरुद्र उदाहरणम् , अवन्त्यां नगयों शैक्षस्य लाभः तस्य सञ्जात इति तदुदाहरणस्यैव सूचा कृता । एतल्लोकोत्तरिकं परुषवचनम् । एतच्चैतेषु स्थानेषूत्पद्यते-"आलत्ते" इत्यादि, 'आलप्तो नाम 'आर्य ! 'किं तव वर्तते ?' इत्येवमाभाषितः १, 'व्याहृतः' 'इत एहि' इत्येवमाकारितः २, 'व्यापारितः' 'इदमिदं च कुरु' इति नियुक्तः ३, 'पृष्टः' किं कृतं ? किं वा न कृतम् ?' इत्यादि पर्यनुयुक्तः ४, 'निसृष्टः' 'गृहाण, भुल, पिब' इत्येव20मादिष्टः ५। एतेषु पञ्चसु स्थानेषु परुषवचनं सम्भवति इति नियुक्तिगाथासमासार्थः ॥६१०२॥ अथैनी विवरीषुश्चण्डरुद्रदृष्टान्तं तावदाह ओसरणे सवयंसो, इन्भसुतो वत्थभूसियसरीरो। दायण त चंडरुद्दे, एस पवंचेति अम्हे त्ति ॥ ६१०३ ॥ भूति आणय आणीते दिक्खितो कंदिउं गता मित्ता । वत्तोसरणे पंथं, पेहा वय दंडगाऽऽउट्टो ॥ ६१०४ ॥ उज्जयिन्यां नगर्या रथयात्रोत्सवे 'ओसरणं' बहूनां साधूनामेकत्र मीलकः समजनि । तत्र सवयस्यो वस्त्रभूषितशरीरः इभ्यसुतः साधूनामन्तिके समायातो भणति-मां प्रव्राजयत । ततः साधवश्चिन्तयन्ति-एषः 'प्रपञ्चयति' विप्रतारयत्यस्मानिति । तैश्वण्डरुद्राचार्यस्य दर्शनं कृतम् "घृष्यतां कलिना कलिः" इति कृत्वा ।। ६१०३ ॥ १ "वाहधूताए पोग्गलं आणीतं । कुटुंबियधूताए भणिता-केण तं आणीतं ? । इतराए भणितं-कि तुमं आणेहि सि ? । कुटुंबियधूया भणति-किं अहं वाहधूया ? । एवं असंखडं जातम् ।" इति चूर्णी विशेष. चूर्णौ च ॥ २ किमनाबाधं वर्तते तव ?' इत्येवमाचार्यादिनाऽऽभाषि का० ॥ ३°नामेव भाष्यकारो विव का०॥ 28 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy