________________
15
१६१० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वचनप्रकृते सूत्रम् १ पाया वयम् , को नामाल्पकषायैः सह विरोधः ? । "थूले तणुए" ति स्थूलशरीरा वयम् , कस्तनुदेहैः सह विरोधः । “दीहे य मडहे य" त्ति दीर्घदेहा वयं सदैवोपरि शिरोघट्टनं प्रामुमः, को मंडभदेहैः समं विरोधः । एषा सूचा । असूचायां तु-बहुकषायस्त्वम् , स्थूलशरीरस्त्वम् इत्यादिकं परिस्फुटमेव जल्पति । एवमसूचया सूचया वा यत् परं हीलयति तदेतद् हीलितवचनम् ॥ ६०९० ॥ अथ खिसितवचनमाह
गहियं च अहाघोसं, तहियं परिपिडियाण संलावो ।
अमुएणं सुत्तत्थो, सो वि य उवजीवितुं दुक्खं ॥ ६०९१ ॥ एकेन सांधुना 'यथाघोषं' यथा गुरुभिरभिलापा भणिताः तथा श्रुतं गृहीतम् । स चैवंगृहीतसूत्रार्थः प्रतीच्छकादीन् वाचयति । यदा च प्रतीच्छक उपतिष्ठते तदा तस्य जाति10 कुलादीनि पृष्ट्वा पश्चात् तैरेव खिंसां करोति । इतश्च अन्यत्र साधूनां परिपिण्डितानां'
खाध्यायमण्डल्या उत्थितानां संलापो वर्तते-कुत्र सूत्रार्थी परिशुद्धौ प्राप्येते ? । तत्रैकस्तं यथाघोषश्रुतग्राहकं साधुं व्यपदिशति, यथा-अमुकेन सूत्रार्थो शुद्धौ गृहीतो परं स 'उपजीवितुं' सेवितुं 'दुःखं' दुष्करः ॥ ६०९१ ॥ कथम् ? इत्याह
जह कोति अमयरुक्खो, विसकंटगवल्लिवेढितो संतो। __ण चइजइ अल्लीतुं, एवं सो खिंसमाणो उ ॥ ६०९२ ॥ यथा कोऽप्यमृतवृक्षो विषकण्टकवल्लीभिर्वेष्टितः सन् 'आलीतुं' आश्रयितुं न शक्यते एव. मसावपि साधुः प्रतीच्छकान् खिंसन् नायितुं शक्यः ॥ ६०९२ ॥ तथाहि
ते खिसणापरद्धा, जाती-कुल-देस-कम्मपुच्छाहिं।
आसागता णिरासा, वचंति विरागसंजुत्ता ॥ ६०९३ ॥ 20 यस्तस्योपसम्पद्यते तं पूर्वमेव पृच्छति-का तव जातिः ? किंनामिका माता ? को वा पिता ? कस्मिन् वा देशे सञ्जातः? किंवा कृष्यादिकं कर्म पूर्व कृतवान् ?; एवं पृष्ट्वा पश्चात् तान् पठतो हीना-ऽधिकाक्षराघुच्चारणादेः कुतोऽपि कारणात् कुपितस्तैरेव जात्यादिभिः खिंसति । ततः 'ते' प्रतीच्छका जाति-कुल-देश-कर्मपृच्छाभिः पूर्व पृष्टाः ततः खिंसनया प्रारब्धाः-त्याजिताः सन्तः 'सूत्रार्थौ ग्रहीष्यामः' इत्याशयाऽऽगताः 'निराशाः' क्षीणमनोरथा विरागसंयुक्ताः
"दिदा सिकसे
"दिट्टा सि कसेरुमई, अणुभूया सि कसेरुमई ।
___ पीयं च ते पाणिययं, वरि तुह नाम न दंसणयं ॥" इति भणित्वा खगच्छं व्रजन्ति ॥ ६०९३ ।।
सुत्त-ऽत्थाणं गहणं, अहगं काहं ततो पडिनियत्तो।
जाति कुल देस कम्म, पुच्छति खल्लाड धण्णागं ॥ ६०९४ ॥ 30 एवं तदीयवृत्तान्तमाकर्ण्य कोऽपि साधुर्भणति-अहं तस्य सकाशे गत्वा सूत्रार्थयोर्ग्रहणं करिष्ये, तं चाचार्य खिंसनादोषाद् निवर्तयिष्यामि । एवमुक्त्वा येषामाचार्याणां स शिप्यस्ते.
१ "मडहं सिद्धत्थयमेत्तं” इति चूर्णौ विशेषचूगां च ॥ २ अल्लियतुं ताभा० ॥ ३ पीतं तुह पाणिययं, वरि तउ णामु ण दसणयं ॥ इति पाठः चूर्णौ ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org