________________
10
भाष्यगाथा: ६०८५-९०] षष्ठ उद्देशः ।
१६०९ विध्य गमनं करोति, 'प्रत्याख्याय च' 'नाहं भुले' इति भणित्वा मुझे अपरेण च साधुना पृष्टो ब्रवीति-गम्यमानं गम्यते नागम्यमानम् , भुज्यमानमेव भुज्यते नाभुज्यमानम् । अनेन च पश्चाद्धेन गमनद्वार-प्रत्याख्यानद्वारे व्याख्याते इति प्रतिपत्तव्यम् । इह च सर्वत्रापि प्रथमवार भणतो मासलघु । अथाभिनिवेशेन तदेव निकाचयति तदा पूर्वोक्तनीत्या पाराश्चिकं यावद् द्रष्टव्यम् ॥
तदेवं येषु स्थानेष्वलीकं सम्भवति यादृशी च तत्र शोधिस्तदभिहितम् । सम्प्रति 'येऽपाया । सापवादाः' (गा० ६०६४ ) इति द्वारम्-तत्राऽनन्तरोक्तान्यलीकानि भणतो द्वितीयसाधुना सहासङ्खडाद्युत्पत्तेः संयमा-ऽऽत्मविराधनारूपा सप्रपञ्चं सुधिया वक्तव्याः । अपवादपदं तु पुरस्ताद् भणिष्यते ॥ गतमलीकवचनम् । अथ हीलितादीन्यभिधित्सुः प्रथमतः प्रायश्चितमतिदिशति
एमेव य हीलाए, खिसा-फरुसवयणं च वदमाणो ।
गारत्थि विओसविते, इमं च जं तेसि णाणतं ॥६०८८॥ एवमेव हीलावचनं खिसावचनं परुषवचनमगारस्थवचनं व्यवशमितोदीरणवचनं च वदतः प्रायश्चित्तं मन्तव्यम् । यच्च तेषां नानात्वं तद् इदं भवति ॥ ६०८८ ॥
आदिल्लेसुं चउसु वि, सोही गुरुगाति भिन्नमासंता।
पणुवीसतो विभाओ, विसेसितो बिदिय पडिलोमं ॥६०८९॥ 16 'आदिमेषु चतुलपि' हीलित-खिसित-परुष-गृहस्थवचनेषु शोधिश्चतुर्गुरुकादिका भिन्नमासान्ता आचार्यादीनां प्राग्वद् मन्तव्या । तद्यथा-आचार्य आचार्य हीलयति चतुर्गुरु १ उपाध्यायं हीलयति चतुर्लघु २ भिक्षु हीलयति मासगुरु ३ स्थविरं हीलयति मासलघु ४ क्षुल्लक हीलयति भिन्नमासः ५। एतान्याचार्यस्य तपः-कालाभ्यां गुरुकाणि भवन्ति । एते आचार्यस्य पञ्च संयोगा उक्ताः, उपाध्यायादीनामपि चतुर्णामेवमेव पञ्च पञ्च संयोगा भवन्ति, सर्वसत्ययते 20 पञ्चविंशतिर्भवन्ति । अत एवाह-'पञ्चविंशतिकः' पञ्चविंशभङ्गपरिमाणो विभागोत्र भवति । स च तपः-कालाभ्यां विशेषितः कर्तव्यः । द्वितीयादेशेन चैतदेव प्रायश्चित्तं प्रतिलोमं विज्ञेयम् , भिन्नमासाद्यं चतुर्गुरुकान्तमित्यर्थः । एवं खिसित-परुष-गृहस्थवचनेष्वपि शोधिर्मन्तव्या ॥ ६०८९ ॥ अथ हीलितवचनं व्याख्याति
गणि वायए बहुस्सुएँ, मेहावाऽऽयरिय धम्मकहि वादी।
अप्पकसाए थूले, तणुए दीहे य मडहे य ॥ ६०९० ॥ इह गणि-वाचकादिभिः पदैः सूचयाऽसूचया वा परं हीलयति । सूचया यथा-वयं न गणि-वृषभा अतः को नाम गणि-वृषभैः सहास्माकं विरोधः । असूचया यथा-कस्त्वं गणीनामसि ? किं वा त्वया गणिना निष्पद्यते?; यद्वा-गणीभवन्नपि त्वं न किञ्चिद् जानासि, केन वा त्वं गणिः कृतः ? इति । एवं वाचकादिष्वपि पदेषु भावनीयम् । नवरम्-'वाचक: 30 पूर्वगतश्रुतधारी, 'बहुश्रुतः' अधीतविचित्रश्रुतः, 'मेधावी' ग्रहण-धारणा-मर्यादामेधाविभेदात् विधा, 'आचार्यः' गच्छाधिपतिः, 'धर्मकथी वादी च' प्रतीतः । “अप्पकसाए" ति बहुक
१°दा द्वितीयवारादिषु मासगुरुकादारभ्य पूर्वो कां• ॥२'त्पतेःप्रवचन-संय का.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org