________________
15
१६०८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वचनप्रकृते सूत्रम् । गमिष्यामि; इतरेण साधुना भणितः-यद्येवं तत उत्तिष्ठ व्रजावः; स प्राह न तावदद्यापि गच्छामि; इतरेण भणितम्-किं "खुः" इति वितर्के 'न यासि न गच्छसि ? त्वया हि भणितम् -अवश्यं गमिष्यामि; एवंपृष्टो भणति-न तावदद्यापि परलोकं गन्तुं वेला जायते अतो न गच्छामि, यद्वा मोक्षं गन्तुं नाद्यापि वेला अतो न गच्छामि; "अपिः" सम्भावने, 5 किं सम्भावयति ? अवश्यं परलोकं मोक्षं वा गमिष्यामीति ॥ ६०८४॥ अथ "दिसासु" ति पदं व्याख्याति
कतरि दिसं गमिस्ससि, पुव्वं अवरं गतो भणति पुट्ठो।
किंवा ण होति पुव्वा, इमा दिसा अवरगामस्स ॥ ६०८५ ॥ एकः साधुरेकेन साधुना पृष्टः--आर्य ! कतरां दिशं भिक्षाचयाँ गमिष्यसि ?; स एवं10 पृष्टो ब्रवीति–पूर्वां गमिष्यामि । ततः प्रच्छकः साधुः पात्रकाण्युद्राह्यापरां दिशं गतः, इतरोऽपि
पूर्व दिग्गमनप्रतिज्ञाता तामेवापरां दिशं गतः, तेन साधुना पृष्टः --'पूर्वां गमिष्यामि' इति भणित्वा कस्मादपरामायातः ?; स प्राह-किं वाऽपरस्य ग्रामस्येयं दिक् पूर्वा न भवति येन मदीयं वचनं विरुध्येत ? ॥ ६०८५ ॥ अथैककुलद्वारमाह
अहमेगकुलं गच्छं, वच्चह बहुकुलपवेसणे पुट्ठो।
भणति कहं दोणि कुले, एगसरीरेण पविसिस्सं ॥६०८६ ॥ ____ कश्चित् केनचिद् भिक्षार्थमुत्थितेनोक्तः-~-आर्य ! एहि व्रजावो भिक्षाम् ; स प्राह-व्रजत यूयं अहमेकमेव कुलं गमिष्यामि एवमुक्त्वा बहुषु कुलेषु प्रवेष्टुं लमः ततोऽपरेण साधुरा पृष्टः-कथम् 'एककुलं गमिष्यामि' इति भणित्वा बहूनि कुलानि प्रविशसि ?; स एवं पृष्टो भणति-द्वे कुले एकेन शरीरेण युगपत् कथं प्रवेक्ष्यामि ?, एकमेव कुलमेकस्मिन् काले प्रवेष्टुं 20 शक्यम् न बहूनीति भावः ॥ ६०८६ ॥ अथैकद्रव्यग्रहणद्वारमाह--
वच्चह एगं दव्वं, घेच्छं णेगगह पुच्छितो भणती ।
गहणं तु लक्खणं पोग्गलाण णऽण्णेसि तेणेगं ॥ ६०८७ ॥ कोऽपि साधुर्भिक्षार्थ गच्छन् कमपि साधु भणति-व्रजावो भिक्षायाम् ; स प्राह-व्रजत यूयम् , अहमेकमेव द्रव्यं ग्रहीप्यामि; एवमुक्त्वा भिक्षां पर्यटन अनेकानाम्-ओदन-द्वितीयाजा25 दीनां बहूनां द्रव्याणां ग्रहण कुर्वन् साधुभिः पृष्टो भणति-"गहणं तु" इत्यादि, गतिलक्षणो धर्मास्तिकायः, स्थितिलक्षणोऽधर्मास्तिकायः, अवगाहलक्षण आकाशास्तिकायः, उपयोगलक्षणो जीवास्तिकायः, ग्रहणलक्षणः पुद्गलास्तिकायः, एषां च पञ्चानां द्रव्याणां मध्यात् पुद्गलानामेव ग्रहणरूपं लक्षणम् नान्येषां धर्मास्तिकायादीनाम् , तेनाहमेकमेव द्रव्यं गृह्णामि न बहूनीति
॥६०८७॥ 39 व्याख्यातं द्वितीयद्वारगाथायाः (गा० ६०६७) पूर्वार्द्धम् । अथ “पडियाखित्ता गमणं, ___पडियाखित्ता य मुंजणय" ति पश्चाई व्याख्यायते-'प्रत्याख्याय' 'नाहं गच्छामि' इति प्रति
१ ततो बहुकुलप्रवेशनेऽपरेण का ॥ २ पृष्टः-कथम् एकमेव द्रव्यं ग्रहीष्ये' इत्युक्त्वा बहूनि द्रव्याणि गृहासि; ततोऽसौ भणति-"गहणं तु" को० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org