________________
१६०६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [धचनप्रकृते सूत्रम् १ मृता; ततः स क्षुल्लकः 'प्ररुदितः' रोदितुं लमः, तमेवं रुदन्तं दृष्ट्वा स साधुराह-मा रुदिहि, जीवति ते जननी; एवमुक्ते क्षुल्लकोऽपरे च साधवो भणन्ति-कथं पूर्व मृतेत्युक्त्वा सम्प्रति जीवतीति भणसि!; स प्राह-एषा शुनी मृता सा तव माता भवति । क्षुल्लको ब्रूते-कथमेषा मम माता !; मृषावादिसाधुराह-सर्वेऽपि जीवा अतीते काले तव मातृत्वेन बभूवुः। । तथा च प्रज्ञप्तिसूत्रम्- एगमेगस्स णं भंते ! जीवस्स सव्वजिया माइत्ताए पिइताए भाइत्ताए भजताए पुत्तत्ताए ●यत्ताए भूतपुव्वा ! हंता गोयमा ! एगमेगस्स जाव भूतपुत्वा ( शत० उ० )। तेनैव कारणेनैषा शुनी त्वदीया माता इति ॥ ६०७५ ॥ अथ पारिहारिकद्वारमाह
ओसण्णे दद्णं, दिट्ठा परिहारिग त्ति लहु कहणे । कत्थुजाणे गुरुओ, वयंत-दिडेसु लहु-गुरुगा ॥६०७६ ॥ छल्लहुगा उ णियत्ते, आलोएंतम्मि छग्गुरू होति । परिहरमाणा वि कह, अप्परिहारी भवे छेदो ॥ ६०७७ ॥ किं परिहरंति णणु खाणु-कंटए सव्वे तुब्में हं एगो।
सव्वे तुब्मे बहि पवयणस्स पारंचिओ होति ॥ ६०७८॥ 15 कोऽपि साधुरुद्याने स्थितानवसन्नान् दृष्ट्वा प्रतिश्रयमागत्य भणति-मया पारिहारिका दृष्टा
इति; साधवो जानते यथा-शुद्धपारिहारिकाः समागताः; एवं छलाभिप्रायेण कथयत एव मासलघु । भूयस्ते साधवः (ग्रन्थाग्रम् ७००० । सर्वग्रन्थानम् -४०८२५ ।) पारिहारिकसाधुदर्शनोत्सुकाः पृच्छन्ति-कुत्र ते दृष्टाः ?; स प्राह-उद्याने; एवं भणतो मासगुरु । ततः साधवः पारिहारिकदर्शनार्थं चलिता व्रजन्तो यावद् न पश्यन्ति तावत् तस्य कथयत20 श्चतुर्लघु । तत्रगतैदृष्टेष्ववसन्नेषु कथयतश्चतुर्गुरु ॥ ६०७६ ॥
'अवसन्ना अमी' इति कृत्वा निवृत्तेषु तेषु कथयतः षड्लघवः । ते साधव ईर्यापथिकीं प्रतिक्रम्य गुरूणामालोचयन्ति-विप्रतारिता वयमनेन साधुनेति; एवं ब्रुवाणेषु तस्य षड्गुरु । आचार्यैरुक्तम्-किमेवं विप्रतारयसि ?; स वष्टोत्तरं दातुमारब्धः-परिहरन्तोऽपि कथमपरिहारिणो भवन्ति !; एवं ब्रुवतश्छेदः ॥ ६०७७ ॥ 25 साधवो भणन्ति—किं ते परिहरन्ति येन परिहारिका उच्यन्ते ?; इतरः प्राह-स्थाणुकण्टकादिकं तेऽपि परिहरन्ति; एवमुत्तरं ददतो मूलम् । ततस्तैः सर्वैरपि साधुभिरुक्तःधृष्टोऽसि यदेवंगतेऽप्युत्तरं ददासीति; ततः स प्राह -सर्वेऽपि यूयमेकत्र भूता अहं पुनरेकोऽसहायो अतः पराजीये, न पुनः परिफल्गु मदीयं जल्पितम् ; एवं भणतोऽनवस्थाप्यम् ।
अथ ज्ञानमदावलिप्त एवं ब्रवीति-सर्वेऽपि यूयं प्रवचनस्य बाह्याः; एवं सर्वानधिक्षिपन् पारा30श्चिको भवति ॥ ६०७८ ॥ इदमेवान्त्यपदं व्याचष्टे
१ धूयत्ताए सुण्हत्ताए सुहि-सयण-संबंध-संथुयत्ताए उववण्णपुव्वा ? हंता गोयमा ! पगमगस्स ण जीवस्स सव्वजीवा जाव उववण्णपुव्वा । अत एतेनैव कार' कां० ॥ २ ताः अतो वन्दनीयास्ते भगवन्तः; 'इति' एवं को० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org