________________
भाष्यगाथाः ६०६९-७५] षष्ठ उद्देशः ।
१६०५ वच्चसि नाहं वच्चे, तक्खण वच्चंति पुच्छिओ भणइ ।
सिद्धतं न विजाणसि, नणु गम्मइ गम्ममाणं तु ॥ ६०७२ ॥ केनापि साधुना चैत्यवन्दनादिप्रयोजने बजता कोऽपि साधुरुक्तः-किं त्वमपि व्रजसि !; आगच्छसि इत्यर्थः; स प्राह--नाहं व्रजामि; एवमुक्त्वा तत्क्षणादेव ब्रजितुं प्रवृत्तः, ततस्तेन पूर्वप्रस्थितसाधुना भणितः-कथं 'न व्रजामि' इति भणित्वा व्रजसि!; स भणति-सिद्धान्त न विजानीषे त्वम् , 'ननु' इत्याक्षेपे, भो मुग्ध ! गम्यमानमेव गम्यते नागम्यमानम् , यसिंश्च समये त्वयाऽहं पृष्टस्तस्मिन्नाहं गच्छामीति ।। ६०७२ ॥ अथ पर्यायद्वारमाह
दस एयस्स य मज्झ य, पुच्छिय परियाग बेइ उ छलेण ।
मम नव पवंदियम्मि, भणाइ बे पंचगा दस उ ॥ ६०७३ ॥ __ कोऽपि साधुरात्मद्वितीयः केनापि साधुना वन्दितुकामेन पृष्टः- कति वर्षाणि भवतां 10 पर्यायः ? इति । स एवंपृष्टो भणति-एतस्य साधोर्मम च दश वर्षाणि पर्याय इति । एवं छलेन तेनोक्ते स प्रच्छकसाधुः 'मम नव वर्षाणि पर्यायः' इत्युक्त्वा 'प्रवन्दितः' वन्दितुं लमस्तत इतरश्छलवादी भणति-उपविशत भगवन्तः ! यूयमेव वन्दनीया इति । 'कथं पुनरहं वन्दनीयः ?' इति तेनोक्ते छलवादी भणति-मम पञ्च वर्षाणि पर्यायः, एतस्यापि साधोः पञ्च, एवं द्वे पश्चके मीलिते दश भवन्ति, अतो यूयमावयोरुभयोरपि वन्दनीया इति भणति ।।६०७३॥15 अथ समुद्देशद्वारमाह
वट्टइ उ समुद्देसो, किं अच्छह कत्थ एस गगणम्मि ।
वटुंति संखडीओ, घरेसु णणु आउखंडणया ॥६०७४ ।। कोऽपि साधुः कायिकादिभूमौ निर्गत आदित्यं राहुणा अस्यमानं दृष्ट्वा साधून् खस्थानासीनान् भणति-आर्याः! समुद्देशो वर्तते, किमेवमुपविष्टास्तिष्ठथ ! ततस्ते साधवः 'नायमलीकं 20 ब्रूते' इति कृत्वा गृहीतभाजना उत्थिताः पृच्छन्ति-कुत्रासौ समुद्देशो भवति !; स पाहनन्वेष गगनमार्गे सूर्यस्य राहुणा समुद्देशः प्रत्यक्षमेव दृश्यते । अथ सङ्खडीद्वारम्-कोऽपि साधुः प्रथमालिका-पानकादिविनिर्गतः प्रत्यागतो भणति-प्रचुराः सङ्खड्यो वर्तन्ते, किमेवं तिष्ठथ ?; ततस्ते साधवो गन्तुकामाः पृच्छन्ति-कुत्र ताः सङ्खड्यः ?; स छलवादी भणतिननु खेषु खेषु गृहेषु सङ्खड्यो वर्तन्त एव; साधवो भणन्ति-कथं ता अप्रसिद्धाः सङ्खड्य 25 उच्यन्ते !; छलवादी भणति-"नणु आउखंडणय" ति 'ननु' इत्याक्षेपे, पृथिव्यादिजीवानामायूंषि गृहे गृहे रन्धनादिभिरारम्भैः सङ्खण्ड्यन्ते ते कथं न सङ्खड्यो भवन्ति ! ॥६०७४ ॥ अथ क्षुल्लकद्वारमाह
खुड्डग ! जणणी ते मता, परुण्णों जियह त्ति अण्ण भणितम्मि ।
माइत्ता सव्वजिया, भर्विसु तेणेस ते माता ॥६०७५ ॥ कोऽपि साधुरुपाश्रयसमीपे मृतां शुनीं दृष्ट्वा क्षुल्लकं कमपि भणति-क्षुल्लक ! जननी तव . १°यूंषि खण्ड्यन्ते यकासु आरम्भपहृतिषु (?) ताः सङ्खड्य इति व्युत्पत्त्यर्थसम्भवाद् भवन्तीति भावः ॥ ६०७४ ॥ अथ कां०॥ .
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org