________________
१६०४
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वचनप्रकृते सूत्रम् १ एष प्रचलायते परं न मन्यते; ततस्तेनान्येन साधुना भणितोऽपि यदि निहते तदा चतुर्लघु । अथ तेन साधुना 'बहुतराणां' द्वि-त्रादीनां साधूनां दर्शितस्तैश्च भणितोऽपि यदि निहते तदा चतुर्गुरु ॥ ६०६८॥
निण्हवणे निण्हवणे, पच्छित्तं वड्डए य जा सपयं ।
लहु-गुरुमासो सुहुमो, लहुगादी बायरो होति ॥ ६०६९ ॥ एवं निवने निहवने प्रायश्चित्तं वर्द्धते यावत् 'स्वपदं' पाराच्चिकम् । तद्यथा-पञ्चमं वारं निढुवानस्य षड्लघु, षष्ठं वारं षड्गुरु, सप्तमं छेदः, अष्टमं वारं मूलम् , नवममनवस्थाप्यम् , दशमं वारं निहुवानस्य पाराश्चिकम् । अत्र च प्रचलादिषु सर्वेष्वपि द्वारेषु यत्र यत्र लघुमासो
गुरुमासो वा भवति तत्र तत्र सूक्ष्मो मृषावादः, यत्र तु चतुर्लघुकादिकं स बादरो मृषावादो 10 भवति ॥ ६०६९ ॥ गतं प्रचलाद्वारम् । अथाद्वारमाह
किं नीसि वासमाणे, ण णीमि नणु वासविंदवो एए।
भुंजंति णीह मरुगा, कहिं ति नणु सव्वगेहेसु ॥६०७० ॥ कोऽपि साधुर्वर्षे पतति प्रस्थितः, स चापरेण भणितः-किं 'वासमाणे' वर्षति निर्गच्छसि ?; स प्राह–नाहं वासन्ते निर्गच्छामि; एवं भणित्वा तथैव प्रस्थितः । तत इतरेण 15 साधुना भणितः-कथं 'न निर्गच्छामि' इति भणित्वा निर्गच्छसि ?; स प्राह-"वास शब्दे" इति धातुपाठात् 'वासति' शब्दायमाने यो गच्छति स वासति निर्गच्छति इत्यभिधीयते, अत्र तु न कश्चिद् वासति किन्तु वर्षबिन्दव एते तेषु गच्छामि । एवं छलवादेन प्रत्युत्तरं ददानस्य तथैव प्रथमवारादिषु मासलघुकादिकं प्रायश्चित्तम् । अथ मरुकद्वारम्-तत्र कोऽपि साधुः कारणे विनिर्गत उपाश्रयमागम्य साधून भगति-निर्गच्छत साधवः ! यतो भुञ्जते मरुकाः 20 एवमुक्ते ते साधव उद्घाहितभाजना भणन्ति-“कहिं ति" ति क ते मरुका भुञ्जते; इतरः
प्राह-ननु सर्वेऽप्यात्मीयगृहेषु । एवं छलेनोत्तरं प्रयच्छति ॥ ६०७० ॥ ___ अथ प्रत्याख्यानद्वारमाह
भुंजसु पच्चक्खातं, महं ति तक्खण प जिओ पुट्ठो ।
किं व ण मे पंचविहा, पच्चक्खाया अविरई उ॥६०७१ ॥ 25 कोऽपि साधुः केनापि साधुना भोजनवेलायां भणितः-'भुक्ष्व' समुद्दिश; स प्राह
प्रत्याख्यातं मया इति; एवमुक्त्वा मण्डल्यां सत्क्षणादेव 'प्रभुक्तः' भोक्तुं प्रवृत्तः । ततो द्वितीयेन साधुना पृष्टः-आर्य ! त्वयेत्यं भणितं 'मया प्रत्याख्यातम्'; स प्राह-किं वा मया प्राणातिपातादिका पञ्चविधाऽविरतिर्न प्रत्याख्याता येन प्रत्याख्यानं न घटते ! ॥ ६०७१ ॥ ___ अथ गमनद्वारमाह
१कं पाराश्चिकान्तं प्रायश्चित्तं स बाद का० ॥ २ °वारादिषु दशमवारान्तेषु मासलघुकादिकं पाराश्चिकान्तं प्रायश्चित्तम् । एवमुत्तरेष्वपि द्वारेषु मासलघुकादिका प्रायचित्तयोजना स्वयमेवानयैव रीत्या कर्तव्या । अथ मरुकद्वारम् का० ॥ ३ णति-भो भोः साधवः! मिर्गच्छत यतो .॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org