________________
भाष्यगाथाः ६०६२-६८] षष्ठ उद्देशः।
१६०३ साम्प्रतमेनामेव विवृणोति
आयरिए अभिसेगे, भिक्खुम्मि य थेरए य खुड्डे य ।
गुरुगा लहुगा गुरु लहु, भिण्णे पडिलोम बिइएणं ॥६०६५.॥ इहाचार्यादिर्वक्ता वचनीयोऽपि स एवैकतरस्तत इदमुच्यते-आचार्य आचार्यमलीकं भणति चतुर्गुरु, अभिषेकं भणति चतुर्लघु, भिक्षु भणति मासगुरु, स्थविरं भणति मासलघु, क्षुल्लक भणति भिन्नमासः । "पिडिलोम बिइएणं" ति द्वितीयेनाऽऽदेशेनैतदेव प्रायश्चित्तं प्रतिलोमं वक्तव्यम् । तद्यथा--आचार्य आचार्यमलीकं भणति भिन्नमासः, अभिषेकं भणति मासलघु, एवं यावत् क्षुल्लक भणतश्चतुर्गुरु । एवमभिषेकादीनामप्य लीकं भणतां खस्थाने परस्थाने च प्रायश्चित्तमिदमेव मन्तव्यम् । अभिलापश्चेत्थं कर्तव्यः-अभिषेक आचार्यमलीकं भणति चतुर्गुरु, अभिषेकं भणति चतुर्लघु इत्यादि ॥६०६५॥ तच्चालीकवचनं येषु स्थानेषु सम्भवति 10 तानि सप्रायश्चित्तानि दर्शयितुकामो द्वारगाथाद्वयमाह
पयला उल्ले मरुए, पञ्चक्खाणे य गमण परियाए । [नि. ८८२] समुद्देस संखडीओ, खुड्डग परिहारिय मुहीओ ॥६०६६ ॥ अवस्सगमणं दिसासुं, एगकुले चेव एगदव्वे य । [नि. ८८३]
पडियाखित्ता गमणं, पडियाखित्ता य भुंजणयं ॥ ६०६७ ॥ 15 प्रचलापदमार्द्रपदं मरुकपदं प्रत्याख्यानपदं गमनपदं पर्यायपदं समुद्देशपदं सङ्खडीपदं क्षुल्लकपदं पारिहारिकपदं "मुहीउ" ति पदैकदेशे पदसमुदायोपचाराद् घोटकमुखीपदम् ॥६०६६॥
अवश्यङ्गमनपदं दिग्विषयपदं एककुलगमनपदं एकद्रव्यग्रहणपदं प्रत्याख्याय गमनपदं प्रत्याख्याय भोजनपदं चेति द्वारगाथाद्वयसमासार्थः ॥६०६७॥ अथैतदेव प्रतिद्वारं विवृणोति
पयलासि किं दिवा ण पयलामि लहु दुच्चनिण्हवे गुरुगो। 20
अन्नदाइत निण्हवे, लहुगा गुरुगा बहुतराणं ॥ ६०६८॥ कोऽपि साधुर्दिवा प्रचलायते, स चान्येन साधुना भणितः किमेवं दिवा प्रचलायसे; स प्रत्याह-न प्रचलाये; एवं प्रथमवारं निढुवानस्य मासलघु । ततो भूयोऽप्यसौ प्रचलायितुं प्रवृत्तस्तेन साधुना भणितः-मा प्रचलायिष्ठाः; स प्रत्याह-न प्रचलाये; एवं द्वितीयवारं निहवे मासगुरु । ततस्तथैव प्रचलायितुं प्रवृत्तस्तेन च साधुनाऽन्यस्य साधोर्दर्शितः, यथा- 25 । १°मुच्यते-आचार्येऽभिषेके भिक्षौ च स्थविरे च क्षुल्लके वचनीये आचार्यादेरेव वक्तुर्यथाक्रमं गुरुका लघुका गुरुमासो लघुमासो भिन्नमासश्चेति प्रायश्चित्तम् । तद्यथाआचार्य का० ॥ २ भिन्नमासः । अभिषेकादीनामाचार्यापेक्षया यथाक्रमं प्रमाणतायां हीन हीनतर-हीनतमा-ऽत्यन्तहीनतमत्वात् । “पडिलोम कां ॥ ३ शुरु । अत्र चादेशे इदं कारणमागमयन्ति वृद्धाः-शिटैरात्मना समानेन सह वक्तव्यम् नासमानेनेति विद्वत्प्रवादः, अतो यथा यथाऽऽचार्य आचार्य आत्मनोऽसदृशं प्रत्यलीकं ब्रूते तथा तथा प्रायश्चित्तं गुरुतरम् सदृशं प्रति भणतः स्वल्पतरमिति । एवमभिषे का० ॥ ४ °लायसि कि दिवा तामा० ॥ ५ यते, उपविणः सन् निद्रायत इत्यर्थः, स चा का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org