________________
5
१६०२
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ वचनप्रकृते सूत्रम् १
पञ्चमोद्देशके द्विचैरिमसूत्रे इदमुक्तम् — 'परिहारिकः' प्रवचनवैयावृत्यमवलम्बमानो वादं कुर्वन् 'परस्य' वादिनो बुद्धि 'परिभूय' पराजित्य ' सिद्धान्तापेतं ' सूत्रोत्तीर्णमपि ब्रूयात्, परमिमानि षडप्यवचनानि मुक्त्वा । एष प्रकारान्तरेण सम्बन्धः || ६०६१ ॥ अथवादिव्वेहिँ छंदिओ हं, भोगेहिं निच्छिया मए ते य ।
इति गारवेण अलियं, वइज आईय संबंधो ॥ ६०६२ ॥
पञ्चमोद्देशकस्यादिसूत्रं उक्तम् — “देवः स्त्रीरूपं कृत्वा साधुं भोगैर्निमन्त्रयेत्,” स च तान् भुक्त्वा गुरुसकाशमागत आलोचयेत् — दिव्यैर्भोगैः 'छन्दितः' निमन्त्रितोऽहं परं मया ते भोगा नेप्सिताः ‘इति’ एवं गौरवेण कश्चिदलीकं वदेत् । अत इदं षष्ठोद्देशकस्यादिसूत्रमारभ्यते । एष उद्देशकद्वयस्याप्यादिसूत्रयोः परस्परं सम्बन्धः ॥ ६०६२ ॥
10 अनेन सम्बन्धेनायातस्यास्य व्याख्या - "नो कप्पइ" त्ति वचनव्यत्ययाद् नो कल्पन्ते निर्मन्थानां वा निर्मन्थीनां वा 'इमानि' प्रत्यक्षासन्नानि 'षड्' इति षट्सछ्याकानि 'अवचनानि ' नञः कुत्सार्थत्वाद् अप्रशस्तानि वचनानि 'वदितुं' भाषितुम् । तद्यथा — — अलीकवचनम्, हीलितवचनम्, खिंसितवचनम्, परुषवचनम्, अगारस्थिताः - गृहिणस्तेषां वचनम्, 'व्यवश - मितं वा' उपशमितमधिकरणं 'पुनर' भूयोऽप्युदीरयितुं न कल्पत इति प्रक्रमः, अनेन 15 व्यवशमितस्य पुनरुदीरणवचनं नाम षष्ठमवचनमुक्तमिति सूत्रसङ्क्षेपार्थः ॥ अथ भाष्यकारो विस्तरार्थमभिधित्सुराह—
छ च्चैव अवत्तव्वा, अलिगे हीला य खिंस फरसे य । गारत्थ विओसविए, तेसिं च परूवणा इणमो ॥ ६०६३ ॥
षडेव वचनानि 'अवक्तव्यानि साधूनां वक्तुमयोग्यानि । तद्यथा - अलीकवचनं हीलित20 वचनं खिंसितवचनं परुषवचनं गृहस्थवचनं व्यवशमितोदीरणवचनम् । 'तेषां च' षण्णामपि यथाक्रममियं प्ररूपणा ||६०६३॥ तामेव प्ररूपणां चिकीर्षुरलीकवचनविषयां द्वारगाथामाहवत्ता वणिजो या, जेसु य ठाणेसु जा विसोही य ।
जे य भणओ अवाया, सप्पडिपक्खा उ णेयव्त्रा ।। ६०६४ ||
यः 'वक्ता' अलीकवचनभाषकः, यश्च 'वचनीयः' अलीकवचनं यमुद्दिश्य भण्यते, येषु च 25 स्थानेष्वलीकं सम्भवति, यादृशी च तत्र 'शोधिः प्रायश्चित्तम्, ये चालीकं भणतः 'अपायाः ' दोषास्ते 'सप्रतिपक्षाः' सापवादा अत्र भणनीयतया ज्ञातव्या इति द्वारगाथासमासार्थः॥६०६४॥
१ °चरिमे-उपान्त्यसूत्रे कां० ॥ २ वादं कर्तुं गच्छेत्, स च वादं कुर्वन् भा० ॥ ३°मानि अलीकादीनि पड° कां० ॥ ४ 'त्- 'दिव्यैः' देवसम्बन्धिभिः भोगैः कां० ॥ ५ इदं तत्प्रतिषेधकं प्रस्तावात् तज्जातीयहीलिताद्येव वचनपञ्चकप्रतिषेधकं च षष्ठो कां० ॥ ६ अनेनानेकविधेन सम्ब कां० ॥ ७ नम् अगारस्थ' कां० ॥ ८ °मपि वचनानां यथा कां• ॥ ९° कीर्षुः प्रथमतोऽलीकवचनविषयां तावद् द्वार° कां० ॥ १० 'वादाः । एतानि द्वाराणि अत्र भणनीयतया ज्ञातव्यानि इति द्वारगाथासमासार्थः ॥ ६०६४ ॥ साम्प्रतमेनामेव विवरीषुः प्रथमतो वक्ता वचनीयो वेति द्वारद्वयं युगपद् विवृणोति - आय° कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org