________________
भाष्यगाथाः ६०५५-५९] पञ्चम उद्देशः।
१५९९ काय निसृजन्ति । उपलक्षणमिदम् , तेर्न यदा संज्ञासम्भवस्तदा यदि अन्यासां संयतीनामासन्ना वसतिस्तदा तत्र गन्तव्यम् । तदभावे भावितायाः श्राद्धिकायाः पुरोहडादौ व्युत्सर्जनीयम् ॥६०५८ ॥
___ एसेव गमो नियमा, तिविह पुलागम्मि होइ समणाणं ।
नवरं पुण नाणत्तं, होइ गिलाणस्स वइयाए ॥ ६०५९ ॥ एष एव 'गमः' प्रकारो नियमात् त्रिविधेऽपि पुलाके श्रमणानामपि भवति । नवरं पुनरत्र नानात्वम्-ग्लानस्य दुग्धादिकमानेतुं व्रजिकायां साधवो गच्छेयुः, तत्र च गताः संस्तरन्त आत्मयोग्यं रसपुलाकं न गृह्णन्ति, अथ न संस्तरन्ति ततः क्षीरादिकं भुक्त्वा न भूयो भिक्षामटन्ति । कारणे तु भूयोऽप्यटन्तस्तथैव यतनां कुर्वन्ति ॥ ६०५९ ।।
॥ पुलाकभक्तप्रकृतं समाप्तम् ॥ ॥ इति श्रीकल्पाध्ययनटीकायां पञ्चमोद्देशकः समाप्तः ॥
श्रीमच्चूर्णिवचांसि तन्तव इह ज्ञेयास्तथा सद्गुरो
राम्नायो नलकस्तुरी बुधजनोपास्त्युद्भवा चातुरी । इत्येतैर्विततान साधकतमैः श्रीपञ्चमोद्देशके,
जाड्यापोहपटीयसीमहमिमामच्छिद्रटीकापटीम् ॥
151
-
-
-
१न रसपुलाके भुक्ते सति यदा कां० ॥ २ अथ निर्ग्रन्थानाममुमेव विधिमतिदिशन्नाह इत्यवतरणं कां० ॥ ३ नानात्वं भवति-तेषां त्रिविधमपि पुलाकं गृखतां चतुर्लघुकाः प्रायश्चित्तम् , निर्ग्रन्थीनां तु चतुर्गुरुकमुक्तमिति विशेषः । तथा द्वितीयपदे ग्लानस्य का० ॥ ४ इत्येतै रचिताऽत्र साधकतमैः श्रीपञ्चमोद्देशके, जाड्यापोहपटीयसी स्व-परयोराय टीकापटी कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org