SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ૧૮૮ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [परिवासितप्रकृते सूत्रम् ३९ त्रागाढेभ्यो रोगातकेभ्य इति सूत्रार्थः ॥ अथ भाष्यम् मक्खेऊणं लिप्पइ, एस कमो होति वणतिगिच्छाए । जइ ते ण तं पमाणं, मा कुण किरियं सरीरस्स ॥ ६०१५ ॥ परः प्राह-ननु व्रणचिकित्सायां पूर्वं व्रणो म्रक्षित्वा ततः पिण्डीप्रदानेन आलिप्यते, एष 6क्रमः, ततः प्रथमं म्रक्षणसूत्रमुक्त्वा पश्चादालेपनसूत्रं भणितुमुचितमिति भावः । यदि चैतत् 'ते' तव न प्रमाणं ततो मा शरीरस्य क्रियां कार्षीरिति ॥ ६०१५ ॥ सूरिराह आलेवणेण पउणइ, जो उ वणो मक्खणेण किं तत्थ । होहिइ वणो व मा मे, आलेवो दिजई समणं ॥६०१६ ॥ नायमेकान्तः यद् अवश्यं व्रणे प्रक्षणमालेपनं च द्वयमपि भवति, किन्तु कुत्रचिदेकतर 10 कुत्राऽप्युभयम्, ततो यः किल व्रण आलेपेन प्रगुणीभवति तत्र किं प्रक्षणेन कार्यम् ! न किञ्चिदित्यर्थः । यद्वा मा मे व्रणो भविष्यति इति कृत्वा प्रथममेवालेपः 'शमनम्' औषधं दीयते ॥ ६०१६ ॥ किञ्च अचाउरे उ कजे, करिति जहलाभ कत्थ परिवाडी। अणुपुग्वि संतविभवे, जुज्जइ न उ सव्वजाईसु ॥ ६०१७॥ 16 'अत्यातुरे' आगाढे कार्ये यथालाभं आलेपो म्रक्षणं वा यः प्रथमं लभ्यते तेनैव चिकित्सा कुर्वन्ति । कुत्र नाम 'परिपाटिः' क्रमो विद्यते ? । इदमेव व्यनक्ति-यः 'सद्विभवः' विद्यमानविभूतिस्तत्र चिकित्सायां क्रियमाणायां 'आनुपूर्वी' चिकित्साशास्त्रभणिता परिपाटिः 'युज्यते' घटते, न पुनः सर्वजातिषु, अतः किमत्र क्रमनिरीक्षणेन ? इति ॥ ६०१७ ॥ सुत्तम्मि कड्डियम्मि, आलेव ठविंति चउलहू होति । 20 आणाइणो य दोसा, विराहणा इमेहिँ ठाणेहिं ॥ ६०१८॥ ... सूत्रार्थकथनेन सूत्रे आकृष्टे सति नियुक्तिविस्तर उच्यते-यदि आलेपं रात्रौ स्थापयति तदा चतुर्लघु, आज्ञादयश्च दोषाः, विराधना चामीभिः स्थानैर्भवति ॥ ६०१८ ॥ निद्धे दवे पणीए, आवजण पाण तकणा झरणा । ___ आयंक विवच्चासे, सेसे लहुगा य गुरुगा य ॥ ६०१९ ॥ 25 "स्निग्धे द्रवे प्रणीते आलेपे स्थापिते प्राणिनामापतनं तर्कणं 'क्षरणं च' तस्य द्रवादेः स्यन्दनं भवति । अत्र दोषभावना प्राग्वत् । 'आतङ्के च' रोगे विपर्यासेन क्रियाकरणे वक्ष्यमाणं प्रायश्चित्तम् । “सेसि" ति आगाढा-ऽनागाढकारणमन्तरेण यदि परिवासयति ततः प्राशुकादौ स्थाप्यमाने चतुर्लघु, अप्राशुकादौ चतुर्गुरु ॥ ६०१९ ॥ इदमेव व्याचष्टे १°न्ति आयुर्वेदविदः । कुत्र कां० ॥ २ प्रदर्शितावाक्षेप-परिहारौ भाष्यकृता । सम्प्रति नियुक्तिविस्तरः इत्यवतरणं कां० ॥ ३ तान्येव दर्शयति इत्यवतरणं का० ॥ ४ स्निग्धं द्रवं प्रणीतं च त्रयमप्यनन्तरसूत्रे व्याख्यातम् । एवंविधे त्रिविधेऽपि आलेपे स्थापिते 'प्राणिनां' मक्षिकाप्रभृतीनामापतनं 'तर्कणं च' गृहकोलिकादीनां तान् प्रति अभिलाषः 'क्षरणं च तस्य द्रवादेः भाजनात् स्यन्दनं का०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy