________________
१५८०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मोकप्रकृते सूत्रम् ३७ लघु । "रतिं दवे वि लहुग" ति पाठान्तरम्, तत्र रात्रौ द्रवं-पानकमाचमनार्थ यदि परिवासयति ततश्चतुर्लघु, सञ्चय-पनकसम्मूर्च्छनादयश्चानेकविधा दोषाः । आह च बृहद्भाष्यकृत्
रत्तिं दवपरिवासे, लहुगा दोसा हवंतऽणेगविहा । इति । 5 द्वितीयपदे आगाढे कारणे यतनया रात्रावपि मोकेनाचमेद् द्रवं वा परिवासयेत् ॥५९८०॥ तत्राध्वनि द्वितीयपदं व्याचष्टे
निच्छुभई सत्थाओ, भत्तं वारेइ तकरदुगं वा ।
फासु दवं च न लब्भइ, सा वि य उचिट्ठविजा उ ॥ ५९८२ ॥ यदि अध्वनि प्रतिपन्नं गच्छं प्रत्यनीकसार्थवाहादिः सार्थाद् निष्काशयति, भक्तं वा 10 वारयति, यद्वा 'तस्करद्विकम्' उपधि-शरीरस्तेनद्वयमुपद्रोतुमिच्छति; तत्र कस्यापि साधोराभि
चारुका विद्या समस्ति यया परिजपितया स आवर्त्यते, स च साधुस्तदानीं संज्ञालेपकृत्पुतः, प्राशुकं च द्रवं तत्र न लभ्यते, साऽपि चोच्छिष्टविद्या, ततो मोकेनाचम्य तां परिजपेत् ॥ ५९८२ ॥ अथागाढपदं व्याख्याति
अचुक्कडे व दुक्खे, अप्पा वा वेदणा खवे आउं । 15
तत्थ वि सु च्चेव गमो, उचिट्ठगमंत-विजाऽऽसु ॥ ५९८३ ॥ अत्युत्कटं वा शूलादिकं दुःखं कस्याप्युत्पन्नम् , 'अल्पा वा वेदना' सर्पदशनादिरूपा सञ्जाता या शीघ्रमायुः क्षिपेत् , ततस्तत्रापि स एव गमो मन्तव्यः, प्राशुकद्रवाभावे मोकेनाचमेदित्यर्थः । तत उच्छिष्टं मनं विद्यां वा परिजप्य तं साधु आशु-शीघ्रं प्रगुणं कुर्यात् ॥५९८३ ॥
अत्र यतनामाह20
मत्तग मोयाऽऽयमणं, अभिगएँ आइण्ण एस निसिकप्पो ।
संफासुड्डाहादी, अमोयमत्ते भवे दोसा ॥ ५९८४ ॥ कायिकामात्रके मोकं गृहीत्वा तेनाचमनं कर्तव्यम् , 'अभिगतस्य' गीतार्थस्याचीर्णमेतत् , एष च निशाकल्प उच्यते, पानकाभावेन रात्रावेव प्रायः क्रियमाणत्वात् । अथ मोकमात्र विना मोकं स्वपक्षसागारिकाद् गृह्णन्ति ततः संस्पर्शाड्डाहादयो दोषाः । एवं रात्रौ मोकेनाचम25 नीयम् , न पुनस्तदर्थ द्रवं स्थापनीयम् । द्वितीयपदे स्थापयेदपि ॥५९८४॥ कथम् ? इत्याह
पिट्ट को वि य सेहो जइ सरई मा व हुज से सन्ना।
जयणाएँ ठवेंति दवं, दोसा य भवे निरोहम्मि ॥ ५९८५ ॥ यदि कोऽपि शैक्षः पिढे सरति, अतीव व्युत्सर्जनं करोतीत्यर्थः । स चाद्यापि मोकाचमनेनाभावित इति कृत्वा तदर्थं यतनया द्रवं स्थापयन्ति । सामान्यतो वा मा 'तस्य' शैक्षस्य 30 रजन्यामकस्माद् व्युत्सर्जनं भवेद् इति कृत्वा द्रवं स्थापयन्ति । अथ न स्थाप्यते ततः स रात्रौ संज्ञासम्भवे पानकाभावे निरोधं कुर्यात् , निरोधे च परिताप-मरणादयो दोषा भवेयुः ॥५९८५॥
१°या वक्ष्यमाणलक्षणथा रात्रा कां० ॥ २°भावे संज्ञाया वेगस्य निरोधं का० ॥ ३प-महादुःख-मर कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org