________________
१५४२
सनियुक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे ! उद्गारप्रकृते सूत्रम् १० लहुओ गुरुओ मासो, चउरो लहुगा य होति गुरुगा य ।
छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ।। ५८४४ ॥ द्वितीयगृहे पञ्चकम् , तृतीयगृहे भिन्नमासः, चतुर्थे मासलघु । 'प्रथमगृहे शुद्धः, चतुर्थे तु पदे मासः तपसा कालेन च गुरुकः । यत्र चादिपदेऽपि प्रायश्चित्तं भवति तत्र द्वाभ्यामपि 5 लघुकम् , मध्यपदयोर्द्वयोरपि यथासङ्ख्यं तपसा कालेन च गुरुकम् ॥ ५८४३ ॥
द्वितीयादिचतुषु गृहपतयः सर्वा अमुना प्रायश्चित्तेन पूरयितव्याः--
द्वितीयस्यां पङ्कौ त्रिषु गृहेषु लघुमासः, चतुर्थे गुरुमासः । तृतीयस्यां त्रिषु गुरुमासः, चतुर्थे चतुर्लघु । चतुर्थ्यां त्रिषु चतुर्लघु, चतुर्थे चतुर्गुरु । पञ्चम्यां त्रिषु चतुर्गुरु, चतुर्थे षड्लघु । षष्ठ्यां त्रिषु षड्लघु, चतुर्थे षड्गुरु । सप्तम्यां त्रिषु षड्गुरु, चतुर्थे छेदः । अष्टम्यां पतौ चतुर्यु 10 गृहेषु च्छेद-मूला-ऽनवस्थाप्य-पाराञ्चिकानि ।। ५८४४ ।। तथा चाह
जह भणिय चउत्थस्स य, तह इयरस्स पढमे मुणेयव्वं ।
पत्ताण होइ भतणा, जे जतणा जं तु वत्थव्वे ॥ ५८४५॥ यथा पूर्वस्यां पङ्की चतुर्थे स्थाने भणितम् , गाथायां सप्तम्यर्थे षष्ठी, तथा 'इतरस्याः' अग्रेतन्याः पतेः प्रथमेषु त्रिषु स्थानेषु प्रायश्चित्तं ज्ञातव्यम् , अन्त्यपदे पुनस्ततोऽग्रेतनम् । यथा-- 15 यतनाप्राप्ता येऽध्वप्रपन्ना ये च वास्तव्या यतनाकारिणः तेषां चतुर्थे स्थाने मासलघुरूपं 'यत्तु' यत् पुनः प्रायश्चित्तमुक्तं तदेव तेषामेवायतनावतामायेषु त्रिषु स्थानेषु भवति, अन्त्यपदे तु मासगुरुकमिति । एवं प्राप्तभूमिकादिष्वपि 'भजना' प्रायश्चित्तरचना विज्ञेया। नवरम्अन्त्यपतयां छेद-मूला-ऽनवस्थाप्य-पाराञ्चिकानि भवन्ति ॥ ५८४५॥
एएण सुत्त न गतं, सुत्तनिवाते इमे तु आदेसा ।
लोही अ ओम पुण्णा, केइ पमाणं इमं बेति ॥ ५८४६ ॥ एतत् सर्वमपि प्रसङ्गतो विनेयानुग्रहार्थमुक्तम् , नैतेन सूत्रं गतम् । यत्र च सूत्रस्य निपातो भवति तत्रामी आदेशा भवन्ति—"लोही अ ओम पुण्ण" त्ति गुरुर्भणति-गुणकारित्वाद् अवमं भोक्तव्यं यथोद्गारो नागच्छति । तथा चात्र लोही-कवल्ली तदृष्टान्तः
यथा कवल्यां यद्यवमं खपामाणादूनमाद्रह्यते ततोऽन्तरन्तः उद्वर्तते, उपरिमुखं न निर्ग25 च्छति; अथ 'पूर्णा' आकण्ठं भृता तत उद्घर्तिता सर्वमपि परित्यजति, अमिमपि विध्यापयति ।
एवमेव यद्यवममाह्रियते ततो वातः शरीरान्तः सुखेनैव प्रविचरति, प्रविचरिते च तस्मिन्नुद्गारो नायाति; अथातिमात्रं समुद्दिश्यते ततोऽन्तर्वायुपूरप्रेरित उद्गार आगच्छति ॥ .. तस्मादवममेव भोक्तव्यम् । केचित् पुनराचार्यदेश्याः 'इदं' वक्ष्यमाणं प्रमाणं ब्रुवते तत्रानन्तरोक्तं कवल्लीदृष्टान्तं भावयति ॥ ५८४६ ॥
अतिभुत्ते उग्गालो, तेणोमं भुंज जण्ण उग्गिलसि । १ तुष्कगृह भा० कां ॥ २ °म् । गाथायाम् "इयरस्स" त्ति पुंस्त्वनिर्देशः प्राकृतत्वात् । अन्त्य का० ॥ ३ °न्ति । इह पतीनां स्थापना स्वयमेवानन्तरप्रदर्शितनीत्या कर्तव्या ॥५८४५॥ एएण कां ॥ ४°च्छति, जठराग्निविध्यापनं च समुपजायते । तस्मा का ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org