________________
भाष्यगाथाः ५७५२-५९] पञ्चम उद्देशः।
१५१७ ध्यायस्य देशरात्रिन्दिवः । आचार्यस्य पञ्चदशरात्रिन्दिवः ॥ ५७५५ ॥
अण्णगणे भिक्खुस्सा, दसेव राइंदिया भवे छेदो।
पण्णरस अहोरत्ता, गणि आयरिए भवे वीसा ॥ ५७५६ ॥ अन्यगणे साम्भोगिकेषु सान्तस्य भिक्षोर्दशरात्रिन्दिवच्छेदः, उपाध्यायस्य पञ्चदशरात्रिन्दिवः, आचार्यस्य विंशतिरात्रिन्दिवः । एवमन्यसाम्भोगिकेषु अवसन्नेषु च प्रागुक्तानुसारेण नेयम् ॥ ५७५६ ॥ अथैवं प्रतिदिनं छिद्यमाने पर्याये पशेण कियन्तो मासा अमीषां छिद्यन्ते ! इति जिज्ञासायां छेदसङ्कलनामाह
अड्वाइजा मासा, पक्खे अट्ठहिँ मासा हवंति वीसं तू ।
पंच उ मासा पक्खे, अट्ठहिँ चत्ता उ भिक्खुस्स ॥ ५७५७ ॥ खगणे सङ्क्रान्तस्य भिक्षोः प्रतिदिनं पञ्चकच्छेदेन च्छिद्यमानस्य पर्यायस्य पक्षेण अर्द्धतृतीया 10 मासाश्छिद्यन्ते । तथाहि-पक्षे पञ्चदश दिनानि भवन्ति, तैः पञ्च गुण्यन्ते जाताः पञ्चसप्ततिः, तस्या मासानयनाय त्रिंशता भागे हृतेऽर्द्धतृतीयमासा लभ्यन्ते । खगणे चाष्टौ स्पर्द्धकानि, तेषु पक्षे पक्षे सञ्चरतः पञ्चकच्छेदेन विंशतिर्मासाश्छिद्यन्ते । तथाहि-पञ्चदशाष्टभिर्गुणिता जातं विशं शतम् , तदपि पञ्चभिर्गुणितं जातानि षट् शतानि, तेषां त्रिंशता भागे हृते विंशतिर्मासा लभ्यन्ते । एवमुत्तरत्रापि गुणकार-भागाहारपयोगेण स्वबुद्ध्या उपयुज्य मासा आनेतव्याः । 15 परगणे सक्रान्तस्य भिक्षोर्दशकेन च्छेदेन च्छिद्यमानस्य पर्यायस्य पक्षेण पञ्च मासाश्छिद्यन्ते, दशकेनैव च्छेदेनाष्टभिः पक्षश्चत्वारिंशद् मासाश्छिद्यन्ते ॥ ५७५७ ॥ एवं भिक्षोरुक्तम् । उपाध्यायस्य पुनरिदम्
पंच उ मासा पक्खे, अट्ठहिँ मासा हवंति चत्ता उ ।
अद्धऽट्ठ मास पक्खे, अट्ठहिँ सढि भवे गणिणो ॥ ५७५८॥ 20 उपाध्यायस्यापि स्वगणे दशकेन च्छेदेन पक्षेण पञ्च मासाः, अष्टभिः पक्षैश्चत्वारिंशद् मासाश्छिद्यन्ते । तस्यैव परगणे पञ्चदशकेन च्छेदेनार्द्धाष्टममासाः पक्षण च्छिद्यन्ते । परगण एवाष्टभिः पक्षैः षष्टिर्मासा गणिनश्छिद्यन्ते ॥ ५७५८ ॥
अद्धट्ठ मास पक्खे, अट्ठहिँ मासा हवंति सढिं तु ।
दस मासा पक्खेणं, अट्टहऽसीती उ आयरिए ॥ ५७५९ ॥ आचार्यस्य खगणे सक्रान्तस्य पञ्चदशकेन च्छेदेन च्छिद्यमाने पर्याये पक्षणार्धीष्टमासाः, अष्टभिः पक्षैः षष्टिर्मासाश्छिद्यन्ते । तस्यैव परगणे सङ्क्रान्तस्य विशेन च्छेदेन पक्षेण दश मासाः, अष्टभिः परशीतिर्मासाश्छिद्यन्ते ॥ ५७५९ ॥
१ दश अहोरात्राणि भवन्ति । किमुक्तं भवति ?-दशरात्रिन्दिवप्रमाणो दिने दिने भवति च्छेदः । एवमाचार्यस्य दिने दिने पञ्च का० ॥ २ °स्य "पक्खे" त्ति विभक्तिः व्यत्ययात् पक्षेण का० ॥ ३°न्ते । तथाऽष्टभिः पौर्विशतिमासा भवन्ति, छेदनीया इत्यर्थाद् गम्यते । इयमत्र भावना-स्वगणेऽष्टौ का० ॥ ४ न्ते, भावना प्रागुक्तनीत्या कर्त्तव्या ।। ५७५७ कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org