SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ पंच परूवेतूणं णावासंतारिमे उ जं जत्थ । उत्तरणम्मि वि लहुगा, तत्थ वि आणाइणो दोसा ॥ ५६२१ ॥ 5 पञ्चापि महानदीः प्ररूप्य या यादृशी यत्र विषये तां तथा वर्णयित्वा प्रस्तुतमभिधातव्यम् । तच्चेदम्—नौसन्तारिमं यत्रोदकं तत्र यत् षट्कायविराधनामात्मविराधनां वा प्राप्नोति तन्निष्पन्नं प्रायश्चित्तम् । यत्रापि जङ्घादिनोत्तरणं भवति तत्रापि चतुर्लघुकाः, अपिशब्दात् सन्तरणेऽपि चतुर्लघु । 'तत्रापि' उत्तरणे आज्ञादयो दोषाः, किं पुनः सन्तरणे ? इत्यपिशब्दार्थः ॥ ५६२१ ॥ तत्र सन्तरणे तावदोषानाह - अणुकंपा पडिणीया, व होज बहवो उ पच्चवाया ऊ । [पि.नि. ५९६ ] एतेसिं णाणत्तं वोच्छामि अहाणुपुव्वीस || ५६२२ ॥ अनुकम्पादोषाः प्रत्यनीकदोषा बहवो वा प्रत्यपाया नावमारूढानां भवन्ति । एतेषां च 'नानात्वं' विभागं यथाऽऽनुपूर्व्या वक्ष्यामि ॥ ५६२२ ॥ तदेवाह - 10 १४८८ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ महानदीप्रकृते सूत्रम् ३२ येषु विषयेषु गङ्गादयः पञ्च महानद्यो वहन्ति तेषु पुरा साधवो विहृतवन्तो न च ताः कदाचनापि शुष्यन्ति अतस्तासां ग्रहणम् ॥ ५६२० ॥ 15 भगं जले थलातो, अण्णे वोयारिता छुमति साहू | ठवणं व पत्थिताए, दङ्कं णावं व आणेती ।। ५६२३ ॥ साधुं तरणार्थिनं ज्ञात्वा नौवाणिजो नाविको वा अनुकम्पया नावं स्थलाद् जले प्रक्षिपेत्, ये वा पूर्वं नावमारोपितास्तानुदके तटे वा अवतार्य साधून् प्रक्षिपेद् नावमारोपयेदित्यर्थः, सम्प्रस्थितां वा नावं 'साधव उत्तरिष्यन्ति' इति कृत्वा स्थापयेत् साधून् वा दृष्ट्वा परकूलाद् नावमा - नयेत् ॥ ५६२३ ॥ अत्र चामी दोषा:-- 20 नावित-साधुपदोसो, णियत्तणऽच्छंतगा य हरियादी । जं तेण सावरहि व, पवहण अण्णाऍ किणणं वा ॥ ५६२४ ॥ ये वेडिकाया अवतारितास्ते नाविकस्य वा साधूनां वा उपरि प्रद्वेषं गच्छेयुः, यद्वा ते निवर्तमानाः तटे वा तिष्ठन्तो हरितादीनां विराधनामन्यद्वाऽधिकरणं यत् कुर्वन्ति, यद्वा स्तेनश्वापदेभ्य उपद्रवं प्राप्नुवन्ति, अवहन्तीं वा नावं यत् प्रवाहयिष्यन्ति, अन्यस्या वा नावः क्रयणं 25 करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम् ॥ ५६२४ ॥ परकूलाद् नावानयने दृष्टान्तमाहमज्जगतो मुरुंडो, णात्रं दद्दूण अपणा णेति । कहिगा जति अक्खेवा, तति लहुगा मग्गणा पच्छा ॥ ५६२५ ॥ 'मज्जनगतः ' स्नानं कुर्वन् मुरुण्डो राजा साधून् दृष्ट्वा नात्रमात्मना नयति, ततो नावारूढः साधुः कथिकाः कथयितुं लग्नः, यावन्तश्च तत्रावल्लकक्षेपास्तावन्ति चतुर्लघूनि पश्चाच्च साधूनां 30 मार्गणा तेनान्तःपुरे धर्मकथनार्थं कृता इत्यक्षरार्थः । भावार्थस्त्वयम् — पाडलिपुत्ते मुरुंडो राया गंगाए नावारूढो उदगे व्हायंतो अभिरमइ । साहुणो परकूले पासित्ता सयमेव नावं ने साहुणो विलग्गावित्ता भगइ - कहं कहेह जाव न उत्तरामो । अक्खे १ जावं नई उत्त° डे० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy