________________
१४७२ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ विष्वग्म०प्रकृते सूत्रम् २९
दिय रातों आसितावण, वोच्छेओ होति बसहीए ॥ ५५६१ ॥ ___ सागारिकस्तत् काष्ठं प्रवेश्यमानं दृष्ट्वा मिथ्यात्वं गच्छेत् , एते भणन्ति-अस्माकमदत्तस्यादानं न कल्पते; यथैतदलीकं तथा अन्यदप्यलीकमेव । अथवा ब्रूयात्—समला अमी,
अस्थिसरजस्कानामप्युपरिवर्तिनः; एवमवर्णो भूयात् । 'जुगुप्सितं वा' जुगुप्सां स कुर्यात्। मृतकमूढ्वा मम गृहमानयन्ति । ततो दिवा रात्रौ वा साधूनां "आसियावणं" निष्काशनं कुर्यात् , वसतेश्च व्यवच्छेदं 'नातः परं ददामि' इत्येकस्यानेकेषां वा कुर्यात् ॥ ५५६१ ॥ यत एते दोषा अतोऽयं विधिः
अइगमणं एगेणं, अण्णाएँ पतिद्ववेति तत्थेव ।
णाए अणुलोमण तस्स वयण बितियं उट्ठाण असिवे वा ॥ ५५६२ ॥ 10 एकेन साधुना प्रथमम् 'अतिगमनं' प्रवेशनं कार्यम् , यदि सागारिको नाद्याप्युत्तिष्ठते तत
एवमज्ञाते काष्ठमानीय यतो गृहीतं तत्रैव प्रतिष्ठापयन्ति । अथ सागारिक उत्थितस्ततस्तस्याग्रे निवेद्यते-यूयं प्रसुप्ता इति कृत्वा नास्माभिरुत्थापिताः, रात्रौ साधुः कालगतः युष्मदीयकाष्ठेन निष्काशितः, साम्प्रतं तदानीयतां उत परिष्ठाप्यताम् ? । एवमुक्ते यद् असौ भणति तत् प्रमाणम् । अथ तैः पूर्वमज्ञायमानः स्थापितं सागारिकेण च पश्चात् कथमपि ज्ञातं ततः 15 कुपितस्यानुलोमनं विधेयम् । अथ प्रज्ञाप्यमानस्यापि तस्य वक्ष्यमाणं वचनं भवति तदा गुरुभिः
स साधुनिष्काशनीय इति शेषः । द्वितीयपंदे उत्थितोऽसौ ग्रामः अशिवगृहीतो वाऽसौ तत. स्तत्रैव परिष्ठापयेत् , न सागारिकस्य प्रत्यर्पयेत् ।। ५५६२ ॥ अथ सागारिकवचनं दर्शयति
जइ नीयमणापुच्छा, आणिज्जति किं पुणो घरं मज्झ ।
दुगुणो एसऽवराधो, ण एस पाणालओ भगवं ! ॥ ५५६३ ॥ 20 यदि अस्माकमनापृच्छया नीतं ततः किमर्थमिदानी पुनरपि मदीयगृहमानीयते ? एष द्विगु
णोऽपराधः, न चैष भगवन् ! मदीय आवासः पाणानां-मातङ्गानामालयो यदेवं मृतकोपकरणमत्रानीतम् ॥ ५५६३ ॥ एवमुक्ते गुरुभिर्वक्तव्यम्--
किमियं सिम्मि गुरू, पुरतो तस्सेव णिच्छुभति तं तू ।
अविजाणताण कयं, अम्ह वि अण्णे वि णं वेति ॥ ५५६४ ॥ 25 किमिदं वृत्तान्तजातमभूत् ? । ततः शेषसाधुभिः शय्यातरेण वा गुरूणां शिष्टम्-अमुकेन
साधुना अनापृच्छया काष्ठं नीतम् । ततो गुरवः 'तस्यैव' शय्यातरस्य पुरतः 'तं' साधु 'किमनापृच्छया नयसि ?' इति निर्भय॑ कैतवेन निष्काशयन्ति । अन्येऽपि साधवः “ण"मिति तं शय्यातरं ब्रुवते-अस्माकमप्यविजानतामेवममुना कृतम् , अन्यथा जानन्तो वयमपि कर्तुं न दद्म इति ॥ ५५६४ ॥ 30 वारेति अणिच्छुभणं, इहरा अण्णाएँ ठाति वसहीए ।
मम णीतो णिच्छुभई, कइतव कलहेण वा वितिओ ॥ ५५६५ ॥ यदि सागारिकः 'वारयति' 'मा निष्काशयत, नैवं भूयः करिष्यति' इति ततः ‘अनिष्का१ पदमत्रं भवति, कथम् ? इति अत आह-"उट्ठाण' त्ति उत्थि° का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org