SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ० भाष्यगाथाः ५१७२-८० ] चतुर्थ उद्देशः । १३.७७ द्विविधो नपुंसकः -- ज्ञायकोऽज्ञायकश्च । तत्र यो जानाति 'साधूनां त्रैराशिकः प्रत्राजयितुं न कल्पते' स ज्ञायकः, तद्विपरीतोऽज्ञायकः । तत्र ज्ञायकमुपस्थितं प्रज्ञापयन्ति - भवान् दीक्षाया अयोग्यः, ततोऽव्यक्तवेषधारी श्रावकधर्मं प्रतिपद्यख, अन्यथा ज्ञानादीनां विराधना ते भविष्यति । अज्ञायकमप्येवमेव प्रज्ञापयन्ति । अथैनां प्रज्ञापनां नेच्छति पत्रज्यामेवाभिलषति आत्मनश्च किञ्चिदशिवादिकं कारणमुपस्थितं ततस्तमज्ञायकं जनप्रत्ययार्थम् 6 'अमीभिः' कटीपट्टेकादिभिः प्रज्ञापयन्ति । स चाज्ञायकस्तत्र जनेन ज्ञायमानोऽज्ञायमानो वा स्यादुभयत्राप्ययं विधिः कर्तव्यः ॥ ५१७६ ॥ कडिपट्टए य छिहली, कत्तरिया भंड लोय पाढे य । धम्मक सनि राउल, ववहार विगिचणा विहिणा ।। ५१७७ ।। कटपट्टकं स परिधापयितव्यः । 'छिहली' शिखा तस्य शिरसि धारणीया । अथ नेच्छति 10 ततः कर्त्तर्या 'भाण्डेन वा' क्षुरेण मुण्डनं विधेयम्, लोचो वा विधातव्यः । " पादि" ति परतीर्थिकमादीनि स पाठनीयः । कृते कार्ये धर्मकथा कर्तव्या येन लिङ्गं परित्यज्य गच्छति । अथैवं लिङ्गं न मुञ्चति ततः 'संज्ञिभिः ' श्रावकैः प्रज्ञापनीयः । अथ राजकुलं गत्वा कथयति ततो व्यवहारोऽपि कर्तव्यः । एवं तस्य 'विगिश्ञ्चना' परिष्ठापना 'विधिना' वक्ष्यमाणनीत्या विधेया । एष द्वारगाथासमासार्थः ॥ ५१७७ ॥ साम्प्रतमेनामेव विवृणोति - डिपट्टओ अभिनवे, कीरइ छिहली य अम्हऽवेवाऽऽसी । कत्तरिया भंड वा, अणिच्छे एकेकपरिहाणी ।। ५१७८ ॥ कटीपट्टकोsभिनव प्रव्रजितस्य तस्य क्रियते न पुनरप्रावपूरकः, शिरसि च 'छिहली नाम ' शिखा धियते । यदि ब्रूयात् — किं ममाग्रावपूरकं सर्वमुण्डनं वा न कुरुत ?; ततो वृषभा भणन्ति — अस्माकमपि प्रथममेवमेव कृतमासीत् । तच्च मुण्डनं कर्तर्या कर्तव्यम्, अथ नेच्छति 20 ततः 'भाण्डेन' क्षुरेण, क्षुरमप्यनिच्छतो लोचः कर्तव्यः । एवमेकैकपरिहाणिर्मन्तव्या । शिखा तु सर्वत्रापि धारणीया ॥ ५१७८ ॥ 15 छिहलिं तु अणिच्छंते, भिक्खुगमादीमतं पऽणिच्छंते । परउत्थिययत्तव्वं, उक्कमदाणं ससमए वि ।। ५१७९ ॥ अथ शिखामपि नेच्छति ततः सर्वमुण्डनमपि विधीयते । पाठस्तु द्विविधा शिक्षा - 25 ग्रहणे आसेवने च । आसेवनाशिक्षायां क्रियाकलापमसौ न ग्राह्यते । ग्रहण शिक्षायाम् — भिक्षुकाः – सौगतास्तेषाम् आदिशब्दात् कपिलादीनां च परतीर्थिकानां मतमध्याप्यतें; अथ तदपि नेच्छति ततः शृङ्गारकाव्यं पाठ्यते, तदध्यनिच्छन्तं द्वादशात्रे यानि परतीर्थिक वक्तव्यतानिबद्धानि सूत्राणि तानि पाठयन्ति, तान्यप्यनिच्छतः खसमयस्यालापका उत्क्रमेण विलुलिता दीयन्ते ॥ ५१७९ ।। आसेवनाशिक्षायां विधिमाह वीयार- गोयरे थेरसंजुओ रत्ति दूरें तरुणाणं । गाह ममं पि तत्तो, थेरा गाहेति जत्तेणं ।। ५१८० ।। १ क- परिधानादिभिः कां• ॥ २ विर्चिच ताभा० ॥ ३ 'धाप्यः । 'छि° ३० ॥ For Private & Personal Use Only Jain Education International 30 www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy