________________
९५२
सनियुक्ति-लघुभाप्य वृत्तिके बृहत्कल्पसूत्रे [ उपाश्रयप्रकृते सूत्रम् ४
व्यादिप्रभृतीनि बहूनि पदानि भवन्ति । प्रत्येकसूत्राणि तु - यंत्रे कसूत्रे एकमेव पदम् । ततश्चात्र विकटसूत्रमुदकसूत्रं पिण्डसूत्रमित्येतानि त्रीणि साधारणसूत्राणि, प्रदीपसूत्रं ज्योतिःसूत्रं च प्रत्येकसूत्रे || ३४०२ ॥
एष पञ्चानामपि सूत्राणां सम्बन्धः सामान्यत उक्तः । अथ विशेषतः सम्बन्धमाहसाच्छुहि व कीरति, विगडं भुत्त तिसितोदयं पिवति । आहारमम्मि दोसा, जह तह पिजे वि जोगोऽयं । ३४०३ ॥ शालिभिरिक्षुभिर्वा विकटं क्रियते, अतो धान्यसूत्रानन्तरमिदं विकटसूत्रमारभ्यते । शालि- कूरादिकमाहारं भुक्त्वा तृषितो भवेत्, तृषितयोदकं पिबतीति उदकसूत्रं निरूपणीयम् । यद्वा 'आहारिमे' तिलादौ भुक्ते सति यथा दोषा भवन्ति तथा 'पेयेऽपि' मद्यादौ पीयमाने 10 दोषा भवन्त्येवेति तत्प्रतिबद्धे प्रतिश्रयेऽपि न स्थातव्यमिति ॥ ३४०३ ॥
5
"
अनेन सम्बन्धेनायातस्यास्य व्याख्या - सुराविकटं पिष्टनिप्पन्नम्, सौवीरकविकटं तु पिष्टवर्जेर्गुडादिद्रव्यैर्निप्पन्नम् । ततः सुराविकटकुम्भो वा सौवीरक विकटकुम्भो वा यत्रोपाश्रयस्यान्तर्वगडायामुपनिक्षिप्तः स्यात् तत्र नो कल्पते निर्मन्थानां वा निर्ग्रन्थीनां वा यथान्दमपि कालं वस्तुम् । “हुरत्था य" त्ति देशीपदं वहिरथभिधायकम् चशब्दो वाक्यभेदद्योतकः, 15 ततोऽयमर्थः- - अथ बहिरन्योपाश्रयं प्रत्युपेक्षमाणोऽपि नो लभेत तत एवं "से" तस्य साधोः कल्पते एकरात्रं वा द्विरात्रं वा तत्र वस्तुम् । यस्तत्रैकरात्राद्वा द्विरात्राद्वा 'परम्' ऊर्द्ध वसति “से” तस्य संयतस्य 'खान्तरात् ' स्वस्वकृतं यदन्तरं - त्रिरात्र - चतूरात्रादिकालावस्थानरूपं तस्मात् 'छेदो वा' पञ्चरात्रिन्दिवादिः 'परिहारो वा' मासलघुकादिस्तपोविशेषो भवतीति सूत्रार्थः ॥ अथ विस्तरार्थं भाष्यकृद् बिभणिषुराह -
देसी भासाइ कथं, जा बहिया सा भवे हुरत्था उ ।
- बंधऽणुलोमेण कथं, परिहारो होइ पुत्रं तु ।। ३४०४ ॥
"हुरत्था" इति यत् पदं तद् देशीभाषया 'कृतं ' निबद्धं बहिरर्थाभिधायकम् । ततो या विवक्षितोपाश्रयाद् बहिर्वर्तिनी वगडा सा "हुरत्था" इति शब्देनोच्यते । अथ परः प्राहपरिहारस्तावत् तपोविशेष उच्यते, छेदस्तु पर्यायच्छेदरूपः, ततः सूत्रे " से संतरा परिहारे वा 25 छेए वा" इति पठितुमुचितम्, किमर्थं व्यत्यासेन पाठः ? इत्याशङ्कयाह - बन्धानुलोम्येन सूत्रे परिहारपदात् पूर्वं छेदपदं कृतम् । किमुक्तं भवति ? - एवंविधो हि पाठः सुललितपदविन्यासतया सुश्लिष्टो भवतीति कृत्वा सूत्रकृता प्रथमं छेदपदमुपन्यस्तम् || ३४०४ ॥
अवण वारिजंतो, निकारणओ व तिण्ह व परेणं ।
20
छेयं चिय आवजे, छेयमओ पुन्त्रमाहंसु ।। ३४०५ ॥
अथवा यदि तत्र विकटयुक्तोपाश्रये गुर्वादिना वार्यमाणः 'निष्कारणतो वा' दर्पतस्तिष्ठति, त्रयाणां वाsहोरात्राणां परतस्तिष्ठति, तदा छेदाख्यमेव प्रायश्चित्तमसावापद्यते, अतश्छेदपदं 'पूर्वं ' प्रथममुक्तवन्तो भगवन्तो भद्रबाहुखामिनः || ३४०५ ॥
30
१ " लुक्खू हि भा० ॥
Jain Education International
२ अतस्तदनन्तर° भा० ॥
For Private & Personal Use Only
www.jainelibrary.org