________________
10
भाष्यगाथाः ३२९७ -३३०४] द्वितीय उद्देशः ।
९२७ अत्र परः प्राह-ननु जातिवाचकाः शब्दाः 'सम्पन्नः शालिः' इत्यादिवदेकवचननिर्देशेन व्यवह्रियमाणा उपलभ्यन्ते, ततः किमर्थमत्र "शालिभित्रीहिभिः” इत्यादौ बहुवचनेन निर्देशः कृतः ? उच्यते
सालीहिँ व वीहीहिं व, इति उत्ते होति एतदुत्तं तु ।
सालीमादीयाणं, होति पगारा बहुविहा उ ॥ ३३०१॥ शालिभिर्वा ब्रीहिभिर्वा 'इत्युक्ते' एवं बहुवचननिर्देशे कृते एतद् 'उक्तम्' अभिहितं भवति-शाल्यादीनां धान्यानां बहुविधाः प्रकारा भवन्ति । तद्यथा-कलमशालिः रक्तशालिमहाशालिरित्यादि ॥ ३३०१ ॥ उस्क्षिप्तादिपदानां व्याख्यानमाह
उक्खित्त भिन्नरासी, "विक्खित्ते तेसि होति संबंधो ।
वितिकिण्णे सम्मेलो, विपइण्णे संथडं जाणे ॥ ३३०२ ॥ उत्क्षिप्तानि नाम येषां धान्यानां राशयो भिन्नाः । विक्षिप्तानि नाम त एव धान्यराशयो भिन्नाः परमेकतः सम्बद्धाः, अत एवाह- विक्षिप्तपदे व्याख्यायमाने 'तेषां' भिन्नराशीनां सम्बन्धो भवति । व्यतिकीर्णानि तु तानि सर्वाण्यपि धान्यान्येकतः सम्मिलितानि, आह चव्यतिकीर्णपदे तेषां धान्यानां सम्मीलको भवति । विप्रकीर्णानि तु सर्वतः संस्तृतानि पुष्पप्रकरवत् , अत एवाह-विप्रकीर्णपदे 'संस्तृतं' विप्रकिरणं जानीयात् ॥ ३३०२ ॥ 15 अथ यथालन्दपदं व्याचप्टे
तिविहं च अहालंदं, जहन्नयं मज्झिमं च उकोसं ।
उदउल्लं च जहण्णं, पणगं पुण होइ उक्कोसं ॥ ३३०३ ॥ 'त्रिविधं च' त्रिप्रकारं यथालन्दम् , तद्यथा--जघन्यं मध्यममुत्कृष्टं च । तत्रोदकाः करो यावता कालेन शुष्यति तावन्मानं जघन्यम् । 'पञ्चकं' पञ्चरात्रिन्दिवानि पुनरुत्कृष्टम् । 20 अर्थादापन्नं तयोरपान्तरालवर्ति सर्वमपि मध्यमम् ॥ ३३०३ ॥ . अथात्र वीजाकीर्णे प्रतिश्रये तिष्ठतां प्रायश्चित्तमाह
वीयाईआइण्णे, लहुओ मासो उ ठायमाणस्स ।
आणादिणो अ दोसा, विराहणा संजमाऽऽताए ॥ ३३०४ ॥ "बीयाइ" ति आदिशब्दः स्वगतानेकभेदसूचकः । ततश्च वीजैः-शाल्यादिभेदादनेकप्रका- 25 रैराकीर्णे उपाश्रये तिष्ठत आचार्यादेर्लघुको मासः प्रायश्चित्तम् , अयं च तपः-कालविशेषितः । तद्यथा-~-आचार्यस्य तपसा कालेन च गुरुकः, उपाध्यायस्य तपसा गुरुकः, वृषभस्य कालेन गुरुकः, भिक्षोस्तपसा कालेन च लघुकः । एतत् प्रत्येकवीजविषयं प्रायश्चित्तमुक्तम् । अनन्तबांजेवाप्येवमेव । नवरं मासलघुस्थाने मासगुरुकम् । संयती नागपि प्रवर्तिनी-गणावच्छेदिन्य
१ लिभिहिभिश्च 'इत्यु भा० ॥ २ उत्कीर्णादिप भा० ॥ ३ एतदग्रे ताटी० मो० ले. ग्रन्थानम्-१०० वर्तते ॥ ४ उक्खिन्न भि° भा० का चूर्णी विशेषचूर्णौ च ॥ ५ विक्खिण्णे ते भा० त० डे० का ० । विकेण्णे ते ताभा० ॥ ६ उत्कीर्णानि नाम भा० ॥ ७ त्रिकीर्णानि नाम भा० ।।
८ विकीर्णपदे व्या भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org