________________
१२९२ मनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [सेनाप्रकृते सूत्रम् ३०
भिक्खस्स व वसहीय च, असती सत्तेव चउरों जावेका ।
लंभालंमे एकेकगस्स णेगा उ संजोगा ॥ ४८१३ ॥ भैक्षस्य वा वसतेर्वा असति सप्त प्रत्युपेक्षणीयाः । तदप्राप्तौ षडादिपरिहाण्या चतस्रो यावदेकाऽपि प्रत्युपेक्षणीया । किमुक्तं भवति ?--वसतयो भिक्षाचर्याश्च यद्यष्टौ न प्राप्यन्ते ।तत एकैकपरिहाण्या यावदेका वसतिरेका भिक्षाचर्या । अत्र चैकैकस्या लामेऽलाभे चाने के संयोगा भवन्ति । तथाहि-अष्टौ वसतयो अष्टौ भिक्षाचर्याः १, अष्टौ वसतयः सप्त भिक्षाचर्याः २, अष्टौ वसतयः षड् भिक्षाचर्याः ३, एवं यावदष्टौ वसतय एका भिक्षाचर्या, एवमष्टा भङ्गा भवन्ति, एते च वसतेरष्टकममुञ्चता लब्धाः, सप्तकादिभिरप्येककपर्यन्तैरेवमेवाष्टावष्टौ भङ्गा लभ्यन्ते, सर्वसङ्ख्यया भङ्गकानां चतुःषष्टिरुत्तिष्ठते । चतुःषष्टितमश्च भङ्गक एका वसति10रेका मिक्षाचर्येतिलक्षणः । सा चैका वसतिः संयतानां संयतीनां च पृथग् भवति ॥४८१३॥ अथोभयेषामपि योग्या वसतिः प्रत्येक नावाप्यते तत एकत्रापि वस्तव्यम् , तत्र यतनामाह
एगत्थ वसंताणं, पिहदुवाराऽसतीय सयकरणं ।
मज्झेण कडग चिलिमिणि, तेसुभयो थेर खुड्डीतो ॥ ४८१४ ॥ संयतानां संयतीनां च एकत्र वसतौ वसतामियं यतना—याद चतुःशालादिकं पृथग्द्वारं 16 तद् गृहं तदा तत्रान्तरे कटकं चिलिमिलीं वा दत्त्वा तिष्ठन्ति । पृथग्द्वारस्याभावे "सयकरणं" ति खयमेव कुड्यं छित्त्वा द्वितीयं द्वारं कर्तव्यम् । गृहमध्ये च कुड्याभावे कटश्चिलिमिलिका वा दातव्या । 'तयोश्च' कटस्य चिलिमिलिकाया वा आसन्नयोरुभयोः पार्श्वयोर्मध्यादेकस्मिन् स्थविराः साधवो द्वितीये च क्षुल्लिकाः संयत्यो भवन्ति । एतच्चाग्रे व्यक्तीकरिष्यते ॥४८१४॥ ___ अथ "तं चेव एगदारे" (गा० ४८११) ति पदं व्याख्याति
दारदुयस्स तु असती, मज्झे दारस्स कडग पुत्ती वा ।
णिक्खम-पवेसवेला, ससद्द पिंडेण सज्झातो ॥ ४८१५ ॥ यदि द्वारद्वयं न भवति खयं च पृथग् द्वारं कर्तुं न लभ्यते ततस्तस्यैकद्वारस्य मध्ये कटकं 'पोतिकां वा' चिलिमिलीं दत्त्वा द्विधा विभजनं विधेयम् । तत्रार्द्धन साधवो निर्गच्छन्ति
अर्द्धन संयत्य इति । अथ सङ्कीर्णा सा वसतिर्न वा विभक्तुं लभ्यते ततः परस्परं निर्गम26 प्रवेशवेलां वर्जयन्ति, यस्यां वेलायां संयता निर्गच्छन्ति तस्यां न संयत्य इति । निर्गच्छन्तश्च शब्दं कुर्वन्ति, पिण्डेन च खाध्यायं कुर्वन्ति, शृङ्गारकथां न कुर्वन्ति, न वा पठन्ति ॥ ४८१५॥ अथ "खपनं च यतनया" (गा० ४८११) इति पदं व्याचष्टे
अंतम्मि व मज्झम्मि व, तरुणी तरुणा य सव्वबाहिरतो ।
मज्झे मज्झिम थेरी, खुड्डी खुड्डा य थेरा य ॥ ४८१६ ॥ 30 यास्तरुण्यस्ता अन्ते वा मध्ये वा भवन्ति, तरुणास्तु सर्वबाह्यतः कर्तव्याः, ततो मध्ये मध्यमाः स्थविराः क्षुल्लिकाश्च साध्व्यः, ततः क्षुल्लकाः स्थविराः चशब्दाद् मध्यमास्तरुणाश्च भवन्तीत्यक्षरार्थः ।
भावार्थस्तु वृद्धविवरणादवगन्तव्यः । तच्चेदम्-तरुणीओ अंते वा ठविजंति मज्झे वा।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org