________________
१२४८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ शय्या० प्रकृते सूत्रम् २४
नेण-राणि-उदगमभम, बोहिकभय रट्टउटाणे ॥ ४६२१ ।। प्रत्यर्पणार्थं नीयमानः संस्तारको राजपुरुषैरन्तरा हियेत, “आणिजंतो" ति गृहपतिगृहादानीयमानो वा राजपुरुषैर्बलादपहियेत, आतापनम्-आतपे संस्तारकस्य प्रदानं तदर्थ वा बहिर्निष्काशितः केनापि ह्रियेत, स्तेना-ऽग्न्युदकसम्भ्रमेषु वा बोधिकमये वा राष्ट्रस्य-देशस्य 5 यद् उत्थानम्-उद्वसीभवनं तत्र हियेत ॥ ४६२१ ॥
पडिसेहेण व लद्धो, पडिलेहणमादिविरहिते गहणं ।
अणुसट्ठी धम्मकहा, वल्लभो वा निमित्तेणं ॥ ४६२२ ॥ प्रतिषेधो नाम-संस्तारको मार्यमाणस्तेन खामिना 'नाहं प्रयच्छामि' इति प्रतिषिद्धः; ततः स केनचिद् भद्रकेणानुशिष्टः-किं न प्रयच्छसि ? इति; स प्राह-विप्रणाशभयात् ; इतरो 10 ब्रवीति-नामीषां हस्ताद् विप्रणश्यति; एवं विधेन प्रतिषेधेन वा लब्धः स प्रयत्नेन ‘रक्ष्य
माणोऽपि प्रत्युपेक्षणानिमित्तं बहिर्नीतः, साधुश्च विस्मृतरजोहरणार्थ मध्ये प्रविष्टः, सच 'उत्कृष्टोऽयम्' इति कृत्वा विरहितं मत्वा केनापि गृहीतः, आदिग्रहणाद् उपाश्रयस्यान्तरपि राजवल्लभेन दृष्ट्वा बलामोटिकया ग्रहणं कृतम् । एवं विप्रणष्टे सति येन हृतस्तस्य पार्धाद् मार्गयितव्यः । अथ मार्गितोऽपि न ददाति ततोऽनुशिष्टिः क्रियते । तथाप्यप्रयच्छति 16 धर्मकथा कर्तव्या । एवमप्यददाने यो द्रमकस्तस्य भापनं क्रियते । यस्तु राजवल्लभः स निमित्तेनावर्तनीयः ॥ ४६२२ ॥ कथं पुनरनुशिष्टिः क्रियते ? इत्युच्यते
दिनो भवबिहेणेव एस णारिहसि णे ण दाउं जे ।
अन्नो वि ताव देयो, दे जाणमजाणयाऽऽणीयं ॥ ४६२३ ॥ य एष भवता संस्तारको गृहीतः स भवद्विधेनैव विशिष्टपुरुषेण दत्तः, ततः “णे" 20 अस्माकं न नार्हसि दातुम् , अन्योऽपि तावद् भवता संस्तारको देयः, किं पुनर्योऽन्यदत्तः ?, ततो जानताऽजानता वा आनीतमममस्माकं प्रयच्छ ॥ ४६२३ ॥ आ ऐवमनुशिष्या यदि न प्रयच्छति ततोऽयं विधिः-»
मंत णिमित्तं पुण रायवल्लभे दमग भेसणमदेंते ।
धम्मकहा पुण दोसु वि, जति अवराहो दुहा वैऽधिओ ॥ ४६२४ ॥ 25 राजवल्लभेऽददति मन्त्रो निमित्तं वा प्रयोक्तव्यम् । द्रमकस्य तु भेषणं कर्तव्यम् । धर्मकथा
पुनर्द्वयोरपि द्रमक राजवल्लभयोः प्रयुज्यते, यथा-यतयः-साधवस्तेषामुपकरणापहारादिरपराधः 'द्विधाऽपि' इहलोके परलोके चाहितो भवति ॥ ४६२४ ॥ इदमेव व्यनक्ति
अन्नं पि ताव तेनं, इह परलोकेऽपहारिणामहियं ।
परओ जायितलद्धं, किं पुण मन्नुप्पहरणेसु ॥४६२५ ॥ 30 'अन्यदपि' प्राकृतजनविषयमपि यत् स्तैन्यं तत् तावदिह परलोके चाऽपहारिणामहितं भवति, किं पुनः परतो याचितं यद् लब्धं तदपह्रियमाणं 'मन्युप्रहरणेषु' साधुषु ? । किमुक्तं
१°व शिष्ट भा० डे० ॥२॥ एतचिहान्तर्वर्त्यवतरणं भा० नास्ति ॥ ३ व अहिओ तामा० ॥ ४किश्व-अन्नं भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org