SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ३१६० - ६७ ] प्रथम उद्देशः । 'तत्र' सभादौ गृहस्थैः सह वसन्तो यद्यावश्यकं स्वाध्यायं वा कुर्वन्ति तदा ते कर्णाघाटकेनागमयन्ति उड्डुञ्चकान् वा कुर्वन्ति, एवमादयो दोषाः । प्रत्युपेक्षणायामपि 'एवमेव' उड्डुञ्चकान् कुर्वन्ति । यदि वार्यन्ते तदा साधुभिः सहासङ्घडं कुर्युः । अथ न वार्यन्ते ततो भगवत्प्रवचनस्य भक्तिः कृता न स्यात् । अथैतद्दोषभयादावश्यकादीनि न कुर्वन्ति ततस्तान्यकुर्वतो या काचिदारोपणा सा द्रष्टव्या । तद्यथा— कायोत्सर्गं न करोति, वन्दनकं न ददाति, स्तुतिप्रदानं नक करोति, सूत्रपौरुषीं न करोति, सर्वेष्वपि मासलघु । अर्थपौरुषीं न करोति मासगुरु । जघन्यमुपधिं न प्रत्युपेक्षते रात्रिन्दिवपञ्चकम् । मध्यमं न प्रत्युपेक्षते मासलघु । उत्कृष्टं न प्रत्युपेक्षते चतुर्लघु ॥ ३१६४ ॥ व्याख्यातमावश्यक- स्वाध्याय- प्रत्युपेक्षणालक्षणं द्वारत्रयम् । अथ भोजनभाषाद्वारे विवृणोति - ८८० जं मंडलिं भंजइ तत्थ मासो, गौरत्थिभासामु य एवमेव । चत्तारि मासा खलु मंडलीए, उड्डाहों भासासमिए वि एवं ।। ३१६५ ।। भोजनं कुर्वन् सागारिकमिति मत्वा यद् मण्डली भनक्ति तत्र मासलघु । अंगारस्थभाषासु च भाष्यमाणासु ‘एवमेव' मासलघु । अथैतत्प्रायश्चित्तभयाद् मण्डल्यां समुद्दिशन्ति तदा चत्वारो मासा लघवः, 'उड्डाहश्च' प्रवचनोपघातो मण्डल्यां समुद्देशने भवति । एवं भाषासमितेऽपि मन्तव्यम्, संयतभाषया भाषमाणस्य चत्वारो लघुमासा भवन्तीति भावः ॥ ३१६५ ।। 15 - अथ विचारद्वारं विवृणोति -> थोवे घणे गंधजुते अभावे, दवस्स वीयारगताण दोसा । आवायसंलोगगया य दोसा करेंतऽकुत्र्वं परितावणादी ।। ३१६६ विचारभूमौ गतानां 'स्तोके' खल्पे 'घने' कलुषे 'गन्धयुते' दुर्गन्धिनि द्रवेऽभावे वा सर्वथैव द्रवस्य 'दोषाः' अवर्णवाद - भक्तपानप्रतिषेधादयो भवन्ति । तथा पुरुषादीनामापाते संलोके 20 वा संज्ञां कायिकीं वा कुर्वन्ति तदा तद्गता दोषा यथा पीठिकायां विचारकल्पिकद्वारे ( गा० ४३०–३७) उक्तास्तथा द्रष्टव्याः । अथैतद्दोषभयात् कायिकीं वा संज्ञां वा न करोति किन्तु धारयति तदा परितापना-महादुःख- मूर्च्छादयो दोषाः || ३१६६ ॥ - अँथ ग्लानद्वारं व्याख्याति — 10 गिलाणतो तत्थऽतिभुंजणेण, उच्चारमादीण व सणिरोधा । अगुत्तसिजा व सण्णिवासा, उड्डाह कुव्वंतिमकुव्वतो य ॥ ३१६७ ॥ 'तत्र' सङ्खड्यामुत्कृष्टद्रव्यलोभादतिमात्रभोजनेन यद्वा सागारिकाकीर्णतया तत्रोच्चारादीनां सन्निरोधाद् ग्लानो भवेत् । अथवा अगुप्ताः - असंवृता याः शय्याः - वसतयस्तासु सन्निवासाद् १न्ति, ततस्तैः समं कलहे भोजनभेदादयो दोषाः कां० ॥ . २ तथा इत्येतावदेवात्रतरणं कां विना ॥ ३ गिद्दत्थभासा भा० । एतदनुसारेणैव भा० टीका। दृश्यतां टिप्पणी ४ ॥ ४ गृहस्थभाषा भा० ॥ ५ एतदन्तर्गत मवतरणं कां० एव वर्त्तते ॥ ६ ता० त० डे० विनाऽन्यत्र -- अथ पुरु° भा० । तथा स्थण्डिले सागारिकसमाकुलतया पुरु° मो० ले० कां० ॥ ७ एतदन्तर्गत मवतरणं कां० एव वर्त्तते ॥ For Private & Personal Use Only Jain Education International 25 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy