SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २९५६-६४ ] प्रथम उद्देशः । ८३७ आनयन्ति । अथ नास्ति कपाटं ततो विद्यया द्वारं स्थगयन्ति । तदभावे कण्टिकाभिः प्रथममचित्ताभिः ततो मिश्राभिः ततः सचित्ताभिरपि स्थगयन्ति ।। २९५९ ॥ एएस असईए, पागार वई व रुक्ख नीसाए । परिखेव विज अच्चित्त मीस सच्चित्त गुरु आणा ।। २९६० ।। 'एतेषां ' भूमिगृहादीनामसति प्राकारं वा वृतिं वा वृक्षं वा 'निश्राय' निश्रां कृत्वा तिष्ठन्ति । ॐ तत्रापि विद्यया परिक्षेपं कुर्वन्ति । तदभावे कण्टिकाभिर्यथाक्रममचित्त - मिश्र - सचिताभिः परिक्षिपन्ति । गुरवश्चाज्ञाप्ररूपणां वक्ष्यमाणां कुर्वन्ति ॥ २९६० ॥ गिरि - नइ तलागमाई, एमेवागम ठएंति विजाई । एग दुगे तिदिसिं वा, ठएंति असईऍ सव्वत्तो ।। २९६१ ।। गिरिं वा नदीं वा तडागं वा आदिग्रहणाद् गर्त्तादिकं वा निश्रां कृत्वा तिष्ठन्ति । तेषां च 10 यंत्रक एव प्रवेशस्तत्र प्रथमतस्तिष्ठन्ति तदभावे यत्र द्वयोर्दिशोः प्रवेशः, तदप्राप्तौ यत्र तिसृषु दिक्षु प्रवेशस्तत्रापि तिष्ठन्ति । तेषां च 'आगमं' प्रवेशमुखम् 'एवमेव' विद्यादिभिः स्थगयन्ति । “ असईय सबत्तो" त्तिं प्राकारादिनिश्राया एकप्रवेशादीनां वा गिरिप्रभृतीनामप्राप्तावाकाशे वसन्तः सर्वतो विद्याप्रयोगेण स्थगयन्ति दिशां वा बन्धं कुर्वन्ति । विद्याया अभावे कण्टिकाभिः सर्वतोवृतिं कुर्वन्ति । तदभावे गुरव आज्ञाप्ररूपणां कुर्वन्ति ।। २९६१ ॥ केन विधिना ? इति चेद् उच्यते नाउमगीयं बलिणं, अविजाणंता व तेसि बलसारं । घोरे भयम्म थेरा, भणति अविगीयथेत्थं ।। २९६२ ॥ ज्ञात्वा कमप्यगीतार्थं 'बलिनं' समर्थम्, यद्वा अविजानन्तः 'तेषां' स्वसाधूनां 'बलसारं ' पराक्रममाहात्म्यम्, कस्य कीदृशः पराक्रमो विद्यते इत्येवमजानन्त इत्यर्थः, 'घोरे' रौद्रे श्वापदा - 20 दिभये 'स्थविरा:' आचार्याः 'अविगीतस्थैर्यार्थम्' अगीतार्थस्थिरीकरणार्थं भणन्ति ।। २९६२ ॥ कथम् ? इत्याह आयरिe गच्छमि य, कुल गण संघे य चेइय विणासे । आलोय पडिकतो, सुद्धो जं निजरा विउला ।। २९६३ ॥ षष्ठीसप्तम्योरर्थं प्रत्यभेदाद् आचार्यस्य वा गच्छस्य वा कुलस्य वा गणस्य वा सङ्घस्य वा 23 चैत्यस्य वा विनाशे उपस्थिते सति सहस्रयोधिप्रभृतिना खवीर्यमहापयता तथा पराक्रमणीयं यथा तेषामाचार्यादीनां विनाशो नोपजायते । स च तथा पराक्रममाणो यद्यपराधमापन्नस्तथाप्यालोचितप्रतिक्रान्तः शुद्धः, गुरुसमक्षमालोच्य मिथ्यादुष्कृतप्रदानमात्रेणैवासौ शुद्ध इति भावः । 'कुतः ? इत्याह – 'यद्' यस्मात् कारणाद् 'विपुला' महती 'निर्जरा' कर्मक्षयलक्षणा तस्य भवति, पुष्टालम्बनमवलम्ब्य भगवदाज्ञया प्रवर्त्तमानत्वादिति ॥ २९६३ ॥ Jain Education International सोऊण य पनवणं, कयकरणस्सा गयाइणो गहणं । सीहाई चैव तिगं, तवबलिए देवयट्ठाणं ।। २९६४ ॥ १ एतद ग्रन्थानम् - ५००० इवि त० डे० मो० ले० ॥ 15 For Private & Personal Use Only 50 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy