________________
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [चारप्रकृते सूत्रम् ३५ वायुविराधनाऽपि । 'इतरथा' यद्युपधिं न प्रतापयति तदा पनकः सम्मूर्च्छति, तत्संसक्तं चोपधिं प्रावृण्वतः परिदधतः प्रत्युपेक्षमाणस्य वाऽनन्तकायसङ्घट्टनादिनिप्पन्नं प्रायश्चित्तम् ; 'हरितानि वा' दूर्वादीनि तदानीमचिरोद्गतानि निरन्तराणि च भवेयुः ततो वनस्पतिविराधना । अप्रत्युपेक्षमाणे उपधौ कुन्थुप्रभृतयो जन्तवः सम्मूर्च्छन्ति, मार्गे गच्छतामिन्द्रगोप5 शिशुनाग-कुत्तिकादयस्त्रसप्राणिनो बह्वो भवन्ति ततस्त्रसकायविराधना । एवं षण्णामपि कायानां विराधना यतः प्रावृषि विहरतां भवति अतो न विहर्त्तव्यम् । द्वितीयपदे विहरेदपि ॥ २७३७ ॥ कथम् ? इत्याह
असिवे ओमोयरिए, रायहढे भए व गेलने ।
. आवाहाईएसु व, पंचसु ठाणेसु रीइजा ॥ २७३८ ॥ 10 'अशिवे' र अशिवगृहीतेषु प्रभूतेषु कुलेषु असंस्तरन्नन्यत्र गच्छेत् । - परपक्षतो वा
अवमौदर्ये सञ्जाते सति असंस्तरन् गच्छेत् । राजद्विष्टे विराधनाभयाद् गच्छति । 'भये वा' बोधिक-स्तेनसमुत्थे 'यद्यमी मां द्रक्ष्यन्ति ततोऽपहरिष्यन्ति' इति मत्वा गच्छति । ग्लानो वा कश्चिदन्यत्र सञ्जातस्तस्य प्रति चरणार्थं गच्छति । आबाधादिषु वा पञ्चसु स्थानेषूत्पन्नेषु प्रावृष्यपि 'रीयेत' ग्रामान्तरं गच्छेत् ॥ २७३८ ॥ तान्येवाबाधादीनि स्थानानि दर्शयति
आवाहे व भये वा, दुब्भिक्खे वाह वा दओहंसि ।
पव्वहणे व परेहिं, पंचहिँ ठाणेहि रीइज्जा ॥ २७३९ ॥ आवाधं नाम-मानसी पीडा, भयं-स्तेनादिसमुत्थम् , दुर्भिक्षं-प्रतीतम् , एतेषु समुत्पन्नेषु, अथवा 'दकौघे' पानीयप्रवाहेण प्रतिश्रये ग्रामे वा व्यूढे सति, 'परैर्वा' प्रत्यनीकैर्दण्डिकादिभिः 'प्रव्यथने' परिभवे ताडने वा विधीयमाने, एतेषु पञ्चसु स्थानेषु प्रावृष्यपि रीयेत ॥२७३९॥
एतं तु पाउसम्मी, भणियं वासासु नवरि चउलहुगा ।
ते चेव तत्थ दोसा, विइयपदं तं चिमं वऽन्नं ॥ २७४० ॥ 'एतद्' अनन्तरोक्तं प्रायश्चित्तं दोषजालं द्वितीयपदं च प्रावृषि भणितम् । अथ 'वर्षासु' वर्षारात्रेऽश्विन-कार्तिकरूपे चरति ततश्चतुर्लघुकाः प्रायश्चित्तम् । 'त एव च' तत्र विहरतः
षट्कायविराधनादयो दोषाः, तदेव च द्वितीयपदम् । इदं वा 'अन्य' अपरं द्वितीयपदमभि25 धीयते ॥ २७४० ॥
असिवे ओमोयरिए, रायडुढे भए व गेलन्ने ।
नाणादितिगस्सऽट्ठा, वीसुंभण पेसणेणं वा ॥ २७४१॥ अशिवेऽवमौदर्ये राजद्विष्टे भये वा ग्लानकारणे वा समुत्पन्ने वर्षासु ग्रामान्तरं गच्छेत् , एतावत् प्रागुक्तमेव द्वितीयपदम् । अथेदमपरमुच्यते-ज्ञानादित्रयस्यार्थायान्यत्र वर्षासु गच्छेत् । 30 तत्रापूर्वः कोऽपि श्रुतस्कन्धोऽन्यस्याचार्यस्य विद्यते, स च भक्तं प्रत्याख्यातुकामो वर्तते, स च श्रुतस्कन्धस्तत आचार्यादगृह्यमाणो व्यवच्छिद्यते, अतस्तदध्ययनार्थं वर्षाखपि गच्छेत् । एवं १ > एतन्मध्यगतः पाठः भा० त० डे. नास्ति ॥ २°च्छेदिति भावः ॥ भा० ॥ ३'षि श्रावण-भाद्रपदरूपायां विहरतां भणि° कां० ॥४ान्न गृह्यते ततो व्यव° भा० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org