SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सम्बद्ध भाष्यगाथाः ५७-६३] पीठिका । एकेक्कमक्खरस्स उ, सप्पजाया हवंति इयरे य । व्यजना क्षराणां संबद्धमसंबद्धा, एकेका ते भवे दुविहा ॥ ६०॥ खपरव्यञ्जनस्य यान्यक्षराणि तस्याक्षरस्यैकैकस्य द्विविधाः पर्यायाः, तद्यथा-वपर्यायाः 'इतरे च' पर्यायाः परपर्यायाः । तत्र अवर्णस्त्रिधा-हस्खो दीर्घः प्लुतश्च, पुनरेकैकस्त्रिधा-उदात्तोऽनुदात्तः खरितश्च, तेषां प. पुनरेकैको द्विधा-सानुनासिको निरनुनासिकश्च, एवमष्टादशप्रकारो अवर्णः । उक्तञ्च- सम्बद्धाहूख-दीर्घ-प्लुतत्वाच्च, त्रैखोपनयेन च । लंच अनुनासिकभेदाच्च, सङ्ख्यातोऽष्टादशात्मकः ।। (ग्रन्थाग्रम्-५०० ) एते अवर्णस्य खपर्यायाः । तथा ये एकैकाक्षरसंयोगतो द्विद्यक्षरसंयोगत एवं यावन्तो घटन्ते संयोगास्तावत्संयोगवशतो येऽवस्थाविशेषा ये च तत्तदर्थाभिधायकत्वखभावास्तेऽपि तस्य खपर्यायाः । इतरे च तत्रासन्तः परपर्यायाः । एवमिवर्णादीनामपि खप-10 र्यायाः परपर्यायाश्च वक्तव्याः । येऽपि परपर्यायास्तेऽपि तस्येति व्यपदिश्यन्ते, व्यवच्छेद्यतया तेषां तद्विशेषकत्वात् , यथा-अयं मे पर इति । 'ते च' खपर्यायाः परपर्यायाश्च एकैके द्विविधा भवन्ति, तद्यथा-सम्बद्धा असम्बद्धाश्च ॥ ६० ॥ एतदेव भावयति ___ अस्थित्ते संबद्धा, होति अकारस्स पञ्जया जे उ । ते चेव असंबद्धा, णत्थित्तेणं तु सव्वे वि ॥ ६१ ॥ 16 । ये अकारस्य 'पर्यायाः' स्वपर्यायास्ते तत्रास्तित्वेन सम्बद्धा भवन्ति । नास्तित्वेन पुनस्त एव सर्वेऽप्यसम्बद्धाः, तत्र तेषां नास्तित्वाभावात् ।। ६१ ॥ एमेव असंता वि उ, णत्थित्तेणं तु होति संबद्धा । ते चेव असंबद्धा, अत्थित्तेणं अभावत्ता ॥ ६२ ॥ 'एवमेव' अनेनैव प्रकारेण असन्तः परपर्याया अपि नास्तित्वेन भवन्ति सम्बद्धाः, ते चैव 20 परपर्याया अस्तित्वेनासम्बद्धाः, तेषामस्तित्वस्य तत्राभावत्वात् ॥ ६२ ॥ अत्रैव निदर्शनमाह घडसद्दे घ-ड-कारा, हवंति संबद्धपज्जया एते । ते चेव असंबद्धा, हवंति रहसद्दमादीसु ॥ ६३ ॥ घंटशब्दे ये घकार-टकारा-ऽकारास्तेषां ये पर्यायास्त एते भवन्ति तत्रास्तित्वेन सम्बद्धाः, तेषां तत्र विद्यमानत्वात् । त एव धकार-टकारा-ऽकारपर्याया रथशब्दादिपु भवन्त्यस्तित्वेनाऽ-25 सम्बद्धाः, तेषां तत्राऽभावात् । तदेवमस्तित्वेन स्वपर्यायास्तत्र सम्बद्धाः अन्यत्र चाऽसम्बद्धा उपदर्शिताः । एतदुपदर्शने चैतदर्थादापन्नम्-ते स्वपर्यायास्तत्र नास्तित्वेनाऽसम्बद्धाः, अन्यत्र तु सम्बद्धाः । तथा ये रथशब्दस्य स्वपर्यायास्ते तत्रास्तित्वेन सम्बद्धाः, तेषां तत्र विद्यमानत्वात् , घटशब्देनाऽसम्बद्धाः, तेषां तत्रासत्त्वात् । त एव च रथशब्दे नास्तित्वेनाऽसम्बद्धाः, घटशब्दे तु सम्बद्धा इति ॥ ६३ ॥ तदेवं वपर्यायाः परपर्यायाश्च प्रत्येकं सम्बद्धा असम्ब-30 द्धाश्च निदर्शिताः । अधुना खपर्यायान् दर्शयति १°या य होंति इतरे या ता. ॥ २ एकैकं भा० ॥ ३ "घडसद्दे० गाधा । घडसद्दे त्ति घडाभिधाणे घकार-डकारा संबद्धपज्जव त्ति घटेऽभिधेये । ते चेव त्ति धकार-डकारा असंबद्धा रहसहमादीसु रहस्साभिधेयादिसु ॥” इति चूर्णिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy