________________
सनियुक्ति-भाष्म-वृत्तिके बृहत्कल्पसूत्रे नन्दी-ज्ञानपञ्चकम् सक्कय-पाययभासाविणियुत्तं देसतो अणेगविहं ।
अभिहाणं अभिधेयातो होइ भिण्णं अभिण्णं च ॥ ५७ ॥ 'तत् पुनः' व्यञ्जनं द्विविधम् यथार्थनियतमयथार्थं वा । यथार्थनियतं नाम अन्वर्थयुक्तम् , यथा-क्षपयतीति क्षपणः, तपतीति तपन इत्यादि । अयथार्थं यथा-नेन्द्रं गोपयति तथापीन्द्र5 गोपकः, न पलमश्नाति तथापि पलाश इत्यादि । अथवा तद् व्यञ्जनं द्विधा-एकपर्यायमनेकपर्यायं च । एकः पर्यायः-अभिधेयो यस्य तदेकपर्यायम् , यथा-अलोकः स्थण्डिलमित्यादि, अलोकशब्देन ह्यलोकत्वलक्षण एक एव पर्यायोऽभिधीयते, स्थण्डिलशब्देन स्थण्डिलत्वमेकमिति । अनेके पर्यायाः-अभिधेया यस्य तदनेकपर्यायम् , यथा-जीव इति, जीवशब्देन हि जीवोsप्युच्यते सत्त्वोऽपि प्राण्यपि भूतोऽपि च, जीवादयश्च प्रतिनियतविशेषाः । तथा चोक्तम्
प्राणा द्वि-त्रि-चतुः प्रोक्ताः, भूताश्च तरवः स्मृताः ।
जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ॥ ततो भवति सामान्येन जीवशब्दस्यानेकपर्यायाभिधायकत्वमिति । एवमेव' एका-ऽनेकभेदेनाक्षरेष्वपि द्रष्टव्यम् । तद्यथा-द्विविधं व्यञ्जनम् , एकाक्षरमनेकाक्षरं च । एकाक्षरं धीः श्रीरित्यादि, अनेकाक्षरं वीणा लता माला इत्यादि ॥ ५६ ॥ 15 अथवा द्विप्रकारम्-संस्कृतभाषाविनिर्युक्तम् , यथा-वृक्ष इति, प्राकृतभाषाविनियुक्तं च, यथा-रोक्खो इति । 'देशतः' नानादेशानाश्रित्यानेकविधम् , यथा-मगधानाम् ओदनः, लाटानां कूरः, द्रमिलानां चौरः, अन्ध्राणाम् इडाकुरिति । तथा तद् 'अभिधानं' व्यञ्जना. क्षरम् अभिधेयाद् भिन्नमभिन्नं च । तत्र भिन्नं प्रतीतम् , तादात्म्याभावात् ॥ ५७ ॥ तमेव तादात्म्याभावमाह
खुर-अग्गि-मोयगोच्चारणम्मि जम्हा उ वयण-सवणाणं ।
ण वि छेदो ण वि दाहो, णं वि पूरण तेण भिण्णं तु ॥ ५८॥ भिन्नाभि- __यस्मात् क्षुरशब्दोच्चारणेऽग्निशब्दोच्चारणे मोदकशब्दोच्चारणे च यथाक्रमं वदतो वदनस्य
शृण्वतः श्रवणस्य न च्छेदो नाऽपि दाहो नाऽपि पूरणम् , अतो ज्ञायतेऽभिधेयादभिधानं भिन्नम् , अन्यथा तादात्म्यसम्बन्धात् क्षुरादयोऽपि तत्र सन्तीति वदनस्य श्रवणस्य च च्छेदादिष25 सङ्गः॥५८॥ अभिन्नत्वं नाम सम्बद्धत्वम् , तथा च लोकेऽप्यभिन्नशब्दः सम्बद्धवाची व्यवयिते, यथा-अयमस्माकं खादन-पानेनाऽभिन्नः, सम्बद्ध इत्यर्थः । ततस्तदेव सम्बद्धत्वं भावयति
जम्हा उ मोयगे अभिहियम्मि तत्थेव पञ्चओ होइ ।
ण य होइ सो अणत्ते, तेण अभिण्णं तदातो ॥ ५९॥ यस्मान्मोदकेऽभिहिते तत्रैव' मोदके प्रत्ययो भवति नाऽन्यत्र । न च 'सः' नियमेन तत्र प्रत्ययः 30 'अन्यत्वे' असम्बद्धत्वे सति भवति, सम्बन्धाभावतो नियामकाभावेनाऽन्यत्रापि तत्प्रत्ययप्रसक्तेः । 'तेन' कारणेन ज्ञायते 'तद्' अभिधानम् 'अर्थादभिन्नम्' अर्थेन सह वाच्य-वाचकभावसम्बद्धम् ॥ ५९ ॥ १ण पूरणं तेण ता० ॥ २ य ता० ॥ ३ इ ता० ॥ ४ °त्थादो ता० ॥
व्यञ्जना. 20
क्षरस्या
भिधेयाद्
नवम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org