________________
10
आपात.
१२२
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे । अनुयोगाधिकारः तेन पथा' स पन्थाः सचित्तः, कथम् ? इत्याह-'षट्केन' पद्भिर्जीवनिकायैः ३; एवमचित्ते स्थण्डिले त्रयो भेदाः । एवं मिश्रे ३ सचिते ३ च । एतेषां अचित्त-मिश्र-सचित्तानामेकैकस्मिन् भने चतुर्भङ्गी ॥ ४१८ ॥ तामेवोपदर्शयति--
. अणवायमसंलोए, अणवाए चेव होति संलोए ।
आवायमसंलोए, आवाए चेव संलोए ॥ ४१९ ॥ अनापातमसंलोकमिति प्रथमो भङ्गः, अनापातं संलोकवदिति द्वितीयः, आपातवदसलोकमिति तृतीयः, आपातवत् संलोकवदिति चतुर्थः । गाथायां मत्वर्थीयप्रत्ययस्य लोपः प्राकृतत्वात् , अभ्रादित्वाद्वा अकारप्रत्ययः । अमीषां चतुर्णा भङ्गानां प्रथमो भङ्गोऽनुज्ञातः, शेषाः प्रतिकुष्टाः । निर्ग्रन्थीनां तृतीयोऽनुज्ञातः ॥ ४१९ ॥ चतुर्थ स्थण्डिलं व्याख्यानयति
तत्थाऽऽवायं दुविहं, सपक्ख-परपक्खतो उ नायव्वं । वत् सं.
दुविहं होइ सपक्खे, संजय तह संजतीणं च ॥ ४२० ॥ लोकवत्
संविग्गमसंविग्गा, संविग्ग मणुण्ण एतरा चेव । स्थण्डिलम्
असं विग्गा वि य दुविहा, तप्पक्खिय एयरा चेव ॥ ४२१ ॥ 'तत्र' आपातवत्-संलोकवतोर्मध्ये 'आपातम्' आपातवद् द्विविधं ज्ञातव्यम् , तद्यथा10 'स्वपक्षतः परपक्षतश्च' स्वपक्षापातवत् परपक्षापातवच्चेत्यर्थः । तत्र 'स्वपक्षे' खपक्षविषये द्विविध. मापातवत् , तद्यथा-'संयतानां संयतीनां च' संयतापातवत् संयत्यापातवच्चेति भावः ॥४२०॥ __ संयता अपि द्विविधाः-संविना असंविमाश्च । संविमा उद्यतविहारिणः, असंविनाः शिथिलाः पार्थस्थादयः । संविमा अपि द्विविधाः-'मनोज्ञाः' साम्भोगिकाः 'इतरे' अमनोज्ञाः
असाम्भोगिकाः । असंविग्ना अपि द्विविधाः-'तत्पाक्षिकाः' संविमपाक्षिकाः 'इतरे' असं विम2० पाक्षिकाः ॥ ४२१ ॥ उक्तं खपक्षापातवत् । सम्प्रति परपक्षापातवत् प्राह
परपक्खे वि य दुविहं, माणुस तेरिच्छगं च नायव्यं ।
एकेकं पि य तिविहं, पुरिसित्थि नपुंसगं चेव ॥ ४२२ ॥ 'परपक्षेऽपि' परपक्षविषयेऽप्यापातवद् द्विविधं ज्ञातव्यम्-'मानुषं तैरश्चं च' मनुष्यापातवत् तिर्यगापातवच्चेत्यर्थः । 'एकैकमपि' मानुषं तैरश्चं च त्रिविधम् , तद्यथा-पुरुषवत् स्त्रीवद् नपुं2 सकवच, पुरुषापातवत् रूयापातवद् नपुंसकापातवच्चेति भावः ॥ ४२२ ॥
पुरिसावायं तिविहं, दंडिय कोडुबिए य पागइए ।
ते सोयऽ-सोयवादी, एमेव नपुंस-इत्थीसु ॥ ४२३ ॥ 'पुरुषापातं' पुरुषापातवत् त्रिविधम् , तद्यथा-'दण्डिके कौटुम्बिके प्राकृते च' दण्डिकपुरुषापातवत् कौटुम्बिकपुरुषापातवत् प्राकृतपुरुषापातवच्चेत्यर्थः । दण्डिका राजकुलानुगताः, 30 कौटुम्बिकाः शेषा महर्द्धिकाः, इतरे प्राकृताः । 'ते च' त्रयोऽपि प्रत्येकं द्विविधाः-शौचवा. दिनोऽशौचवादिनश्च । 'एवमेव' अनेनैव प्रकारेण नपुंसक-स्त्रियोरपि वक्तव्यम् । किमुक्तं भवति ?-नपुंसकापातवत् रूयापातवच्च प्रत्येकं प्रथमतो दण्डिकादिभेदतस्त्रिविधम् । ततः शौचवायशौचवादिभेदतः पुनरेकै द्विविधम् ॥ ४२३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org