SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-भाग्य-वृत्तिके वृहत्कल्पसूत्रे [अनुयोगाधिकारः अनुयोगः अणुणा जोगो अणुजोगो, अणु पच्छाभावओ य थेवे य । जम्हा पच्छाऽमिहियं, सुत्तं थोवं च तेणाणू ।। १९० ॥ इह अनुयोग [ इति अणुयोग ] इति वा शब्दसंस्कारः । तत्र 'अनुना' पश्चाद्भूतेन योगोऽनुयोगः, अथवा 'अणुना' स्तोकेन योगः अणुयोगः । तथा चाह-अणु इति पश्चाद्भावे 5 स्तोके च । यस्मात् पश्चात् 'अभिहितं' कृतं सूत्रं स्तोकं च तेन अणु इति भण्यते । अर्थः पुनरननुः, पूर्वमुक्तत्वात् , बादरश्च, वहुत्वात् ।। १९० ॥ एवमाचार्येणोक्ते शिप्यः प्राह पुव्वं सुत्तं पच्छा, य पगासो लोइया वि इच्छंति । पेलोसरिसे सुत्ते, अत्थपया हुंति बहुया वि ॥ १९१ ॥ ननु पूर्व सूत्रं पश्चात् 'प्रकाशः' अर्थः, 'तान् तान् भावान् प्रकाशयतीति प्रकाशः' इति 10 व्युत्पत्तेः, सूत्राभावे तु स कस्य स्यात् ! ; अपि च लौकिका अप्येवमेवेच्छन्ति, तथा चोक्तं तैरेव पूर्व सूत्रं ततो वृत्तिवृत्तेरपि च वार्तिकम् । सूत्र-वार्तिकयोर्मध्ये, ततो भाप्यं प्रवर्तते ॥ ततो यद्वदथ यूयं 'पूर्वमर्थः पश्चात्सूत्रम्' इति तन्न घटां प्राञ्चति । यदपि च ब्रूथ 'सूत्र15 मणुः, अर्थो बादरः' इति तदपि न सम्यक्, यत एकस्यां पेडायां बहूनि वस्त्राणि मान्ति तत्र पेडाया एव वादरत्वं युज्यते, तद्वशाद् बहूनि वस्त्राणि मान्ति स्म; एवमत्रापि 'पेडासदृशे' पेडास्थानीये सूत्रे बहून्यर्थपदानि वर्तन्ते, ततः सूत्रमेव बादरीभवितुमर्हति नार्थ इति ॥१९१।। न च महत्त्वमेकान्तेनार्थस्य, कस्मात् ? इत्याह इकं वा अस्थपयं, सुत्ता बहुगा वि संपयंसंति । उक्खित्तनायमाइसु, अयमवि तम्हा अणेगंतो ॥ १९२ ॥ __ एकमर्थपदं बहूनि सूत्राणि सम्प्रदर्शयन्ति, यथा उत्क्षिप्तज्ञाते 'अनुकम्पा कर्त्तव्या' इत्यर्थों बहुभिः सूत्रैर्वर्णितः । आदिशब्दात् सङ्घाटादिषु ज्ञातेषु 'न वर्णहेतोराहारयितव्यम्' इत्यादिपरिग्रहः । तस्मादयमनेकान्तो यत् 'अर्थो महान्' इति ॥ १९२ ॥ आचार्यः प्राह-यत्त्वयोक्तं 'पूर्व सूत्रं पश्चादर्थः' इति तन्न भवति, कथम् ! इत्याह अत्थं भासइ अरिहा, तमेव सुत्तीकरैति गणधारी । ___ अत्थं च विणा सुत्तं, अणिस्सियं केरिसं होजा ।। १९३ ।। अर्थ भाषतेऽर्हन् । 'तमेव' अर्हद्भाषितमर्थ सूत्रीकुर्वन्ति गणधारिणः । अर्थ च विना सूत्रम् 'अनिश्रितम्' अर्थनिश्रारहितं कीदृशं स्यात् ? असम्बद्धं स्यात्, “दशदाडिमे"त्यादिवाक्यवदिति भावः । अपि च लौकिका अपि शास्तारः प्रथमतोऽर्थ दृष्ट्वा सूत्रं कुर्वन्ति, 30 अर्थमन्तरेण सूत्रस्यानिष्पत्तेः । यदप्युक्तं 'पेडावहादरं सूत्रम् , अर्थोऽणुः' इति तदप्यश्लीलम् , यतस्तस्या एव पेडाया एकं वस्त्रमादाय तेनानेकाः पेडा बध्यन्ते, तथैकस्मादर्थाद्वहूनि सूत्रा १ जोगणुजोगो ता० ॥ २ पेडास ता० ॥ ३ अतम° ता० ॥ ४ ज्ञाताधर्मकथाङ्गे प्रथमं ज्ञातमिदम् ॥ ५ ज्ञाताधर्मकथाङ्गे द्वितीयं ज्ञातमिदम् ॥ ६ होइ ता. विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy