________________
३२६ जैनदर्शन में कारण-कार्य व्यवस्था : एक समन्वयात्मक दृष्टिकोण १२३. 'कर्तृवादे प्राधान्येन कतुरेव कारणत्वं, कर्ता च न कोऽपि स्वस्य दुःखमिच्छति,
न वा नीचकुलगोत्रादिकमिच्छति किन्त्वतिशयितसुखमेवेच्छति उच्चकुलगोत्रादिकमेवेच्छति इति सुखमेवोच्चकुल-गोत्रादिकमेव स्यादिति जगद्वैचित्र्यं न स्यात्.......कर्तुः प्रावीण्याभावात् कथं कर्तृवादसम्भव।"
-नियति द्वात्रिंशिका, श्लोक ४ की आचार्य विजयलावण्यसूरि रचित टीका १२४. द्वात्रिंशत् द्वात्रिंशिका, नियति द्वात्रिंशिका, श्लोक ४ १२५. तथाऽतिशयक्रियौ एकस्य जीवस्य धर्ममतिशेतेऽपरस्य जीवस्य धर्मः
यतस्तज्जन्यसुखापेक्षयोत्कृष्टतरं सुखादिकमपरस्य जीवस्यातिशयितधर्मनिबन्धनं भवति, एवमेकस्य जीवस्याधर्ममतिशेतेऽपरस्य जीवस्याधर्मः, यतस्तज्जन्यदुःखाद्यपेक्षयोत्कृष्टतरं दुःखादिकमपरस्य जीवस्यातिशयिताधर्मनिबन्धनं भवतीत्येवमन्योऽन्यातिशयक्रियौ न चैतादृशौ तौ देशकालादिमेदमन्तरेणेति, देशाद्यपेक्षौ चेति तयोरुक्तस्वभावयोधर्माधर्मयोः कथं केन प्रकारेण कः कीदृशः कर्तृसम्भवः कर्तृवादोपपत्तिः, धर्माधर्मों न प्रत्यक्षेणानुभूयेते, तथा चेदृशौ तौ नान्यादृशाविति कर्तुं न कर्ता प्रभुः, नियतिवादाभ्युपगमे तु अस्य धर्मस्यानेन स्वभावेन भवितव्यमस्य धर्मस्यानेन स्वभावेन भवितव्यमिति नियत्या नियमनं सम्भवतीति भावः। -द्वात्रिंशत् द्वात्रिंशिका, नियति द्वात्रिंशिका, श्लोक ४
पर आचार्य विजयलावण्यसूरि रचित टीका। १२६. द्वात्रिंशत्-द्वात्रिंशिका, नियति द्वात्रिंशिका, श्लोक ५ १२७. द्रष्टव्य द्वात्रिंशत्-द्वात्रिंशिका, नियति द्वात्रिंशिका, श्लोक ५ पर आचार्य
विजयलावण्यसूरि रचित टीका। १२८. 'यथा ग्रामध्यक्ष-देशाध्यक्ष-प्रधानसेनापत्यादिपरिकरोपेतो भूपतिः
राज्यप्रशासनादिकार्ये स्वतन्त्रः कर्तुमकर्तुमन्यथाकतुं च समर्थस्तथा जीवोऽपि दृष्टादृष्टकारणचक्रोपेतः सन् सुखादिकार्य करोतीति स्वतंत्र एवेति कर्तृप्राधान्यवादो निर्वहति इति।' -द्वात्रिंशत् द्वात्रिंशिका, नियति द्वात्रिंशिका,
श्लोक ६ पर आचार्य विजयलावण्यसूरि रचित टीका १२९. नियति द्वात्रिंशिका (गाँधी धाम) श्लोक ६ १३०. 'राजादि दृष्टान्तेन नियुक्तिकं कर्तुः स्वातन्त्र्यं वाद्यभ्युपगतमित्यर्थः न
प्रतिषिध्यते नियतिवादिना न निराक्रियते, न हि वाङ्मात्रेण किमपि वस्त्वभ्युपगच्छतो वक्तुः वक्त्रं वक्रीभवति, न च तथा साधितं वस्तु सिद्धिकोटिमुपढौकते अतो वस्तुगत्याऽसिद्धस्य तस्य निषेधो न युज्यत इति जीवस्य कर्तुः स्वातन्त्र्याभावे....अनिमित्तं स्यात् तथा, न प्रतिषिध्यते किन्तु सनिमित्तमेव प्रतिषिध्यते तत्स्वातन्त्र्यप्रतिषेधे किं निमित्तमित्याकाङ्क्षायामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org