________________
प्रमाणसङ्ग्रहस्य
॥ टिप्पणानि ॥
पृ० ६७. पं० १. 'श्रीमत्परम'-कारिकेयं निम्नशिलालेखेषु वर्तते-चन्द्रगिरिपर्वतस्य ३६, ४२, ४३, ४४, ४५, ४८, ५१, ५२, ५३, ५५, ५०, ६८ । विन्ध्यगिरिपर्वतस्य ८१, ८२, ८३, ६०, ६६, ६९, १०५, १११, ११३, १२४, १३०, १३७, १३८, १४१, १४४, २२६, ३६२,४८६, ४६३, ४६४, ४६५, ४६६, ५०० । [ जैनशिलालेखसं०]
__तुलना-"जोयानिरस्त्रनिःशेषसर्वथैकान्तशासनम्। सदा श्रीवर्द्धमानस्य विद्यानन्दस्य 5 शासनम् ॥” [ पत्रपरी० पृ. १३ }
पृ० ६७. पं० ३. 'प्रत्यक्षं'-अस्या व्याख्यानं तत्त्वार्थश्लोकवातिके इत्थम्....... अकलङ्करभ्यधायि यः ॥१७८॥ प्रत्यचं विशदं ज्ञानं त्रिधा श्रुतमविष्णु (प्लु) तम् । परोचं प्रत्यभिज्ञादि प्रमाणे इति सङग्रहः॥ १७॥ 'प्रत्यक्ष विशदं ज्ञानं त्रिधा' इति ब्रवाणेनापि मुख्यमतीन्द्रियं पूर्ण केवलमपूर्णमवधिज्ञानं मनःपर्थयज्ञानं चेति निवेदितमेव, तस्याक्ष- 10 मात्मानमाश्रित्य वर्तमानत्वात् । व्यवहारतः पुनः इन्द्रियप्रत्यक्षमनिन्द्रियप्रत्यक्षमिति वैशधांशसद्भावात् ततो न सूत्रव्याहतिः । श्रुतं प्रत्यभिज्ञादि च परोक्षम् इत्येतदपि न सूत्रविरुद्धम् 'आधे परोक्षम्' इत्यनेन तस्य परोक्षत्वप्रतिपादनात्। अवग्रहेहावायधारणानां स्मृतेश्च परोक्षत्ववचनात् तद्विरोध इति चेन्न; प्रत्यभिज्ञादीत्यत्र वृत्तिद्वयेन सर्वसङ्ग्रहात् । कथम् ? प्रत्यभिज्ञाया आदिः पूर्व प्रत्यभिज्ञादि इति स्मृतिपर्यन्तस्य ज्ञानस्य सङ्ग्रहात् प्राधान्येन अवग्रहादेरपि 15 परोक्षत्ववचनात्, प्रत्यभिज्ञा श्रादिर्यस्य इति वृत्त्या पुनः अभिनिबोधपर्यन्तसङ्गृहीतेन काचित् परोक्षव्यक्तिरसङ्गृहीता स्यात् । तत एव प्रत्यभिज्ञादि इति युक्तम् व्यवहारतः, मुख्यतः स्वेष्टस्य परोक्षव्यक्तिसमूहस्य प्रत्यायनात्, अन्यथा 'स्मरणादि परोक्षं तु प्रमाणे इति सङ्ग्रहः, इत्येवं स्पष्टमभिधानं स्यात्, व्रतः शब्दार्थाश्रयणान्न कश्चिदोषोत्रोपलभ्यते ।" [तत्त्वार्थश्लो. १० १८५]
20 तुलना-"प्रमाणसमहादौ 'प्रमाणे इति सङ्ग्रहः' इत्यभिधाय'.." [सिद्धिवि० टी० पु० ४ A.] “तदुक्तम्-प्रत्यक्षं विशदं ज्ञानं त्रिधाश्रित:" [ अष्टसह ० पृ० २८१] "प्रत्यक्षं विशदानं विधा इति शास्त्रान्तरे प्रतिपादनात् ।। [न्यायवि० वि० पृ० ५३ A.] “प्रत्यक्षं विदं शानं विधैन्द्रिवणनैन्द्रियम् । योगजं चेति." [जनतर्कवा० पृ० ९३ ]
पृ० ६७. पं० ६. 'श्रुतमविसवं'-अकलकेन श्रुतं प्रत्यक्षानुमानागमनिमित्त- 25 कतया त्रिधा विभक्तम् । जैनतर्कवाचिककृता तु लिङ्ग-शब्दसमुद्भूततया द्विधा परोक्षं स्वीकृत्य अकलङ्कमतं निरस्तम् । तथाहि-"परोक्षं द्विविधं प्राहुर्लिङ्गशब्दसमुद्भवम् । लैङ्गिकप्रत्यभिज्ञादि भिन्नसन्ये प्रचक्षते ।। नन्वन्यदपि प्रत्यभिज्ञादिकं परोक्षं मन्यन्ते, तदेव लैङ्गिकप्रत्यभिज्ञादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org