SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ १५४ लघीयत्रयस्य [पृ० २६. पं०५-११. पृ० २६. पं० ५. 'सदादिभिः'-"से किं ते अणुगमे ? नवविहे पण्णत्ते तं जहासंतपयपरूवण्या, दव्वपमाणं च, खित्त, फुसणा य, कालो य, अंतरं, भाग, भाव, अप्पाबहुं चेव।” [अनु० सू० ८०] "सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ।” [तत्त्वार्थसू० ११८] पृ० २६. पं० ६. 'जीवस्थान'-"सुहुमा बादरकाया ते खलु पज्जत्तया अपजत्ता । एइंदिया दु जीवा जिणेहि कहिया चदुवियप्पा ।। पज्जत्तापजत्ता वि होंति विगलिंदिया दु छब्भेया। पज्जत्तापजत्ता सएिण अंसरणी य सेसा दु॥' [मूलाचारपर्या० गा० १५२-१५३] जीवकांड गा० ७२ । कर्मग्र० ४।२।। __ पृ० २६. पं०६. 'गुणस्थान'-"मिच्छादिट्ठी सासादणोय मिस्सो असंजदो चेव । देसविरदो पमत्तो अपमत्तो तह य णायव्वो ॥एतो अपुवकरणो अणियट्टी सुहुमसंपराश्रो य। 10 उपसंतखीणमोहो सजोगकेवलिजिणो अजोगी य ।।" [ मूलाचारपर्या० गा० १५४-१५५ ] जीकाण्ड गा० ९-१० । कर्मग्रं० २।२। पृ० २६. पं० ६. 'मार्गणास्थान'-"गइ इंदिये च काये जोगे वेदे कसायणाणे य । संजम दंसण लेस्सा भविया सम्मत्त सणिण आहारे ।।" [मूलाचारपर्या० गा० १५६] जीवकाण्ड गा० १४१ । कर्मग्र० ४।९। 15 पृ० २६. पं० १०. 'नहि गुणादिविनाशात'-तुलना-"आत्मलाभं विदुर्मोक्षं जीवस्यान्तमंलक्षयात् । नाभावं नाप्यचैतन्यं न चैतन्यमनर्थकम् ॥" [सिद्धिवि० पृ० ३८४] पृ० २६. पं० १०. 'जडः' नैयायिकाः जरूपत्वमात्मनो मुक्तौ स्वीकुर्वन्ति । तथाहि-"नवानामात्मविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते सन्तानत्वात् , यो यः सन्तानः स सोऽत्यन्तमच्छिद्यमानो यो यथा प्रदीपसन्तानः" [प्रश० व्यो० प० २० क] "तदेवं 20 नवानामात्मगुणानां निमूलच्छेदोऽपवर्ग इति यदुच्यते तदेवेदमुक्तं भवति तदत्यन्तवियोगोऽपवर्ग इति ।" [ न्यायमं० पृ० ५०८] पृ० २६. पं० १० 'शून्यः'-"बौद्धाः शून्यात्मकत्वमपि मुक्तौ मन्यन्ते । तथाहि" इह हि भगवता उषितब्रह्मचर्याणां तथागतशासनप्रतिपन्नानां धर्मानुधर्मप्रतिपत्तियुक्तानां पुद्गलानां द्विविधं निर्वाणमुपवर्णितं सोपधिशेषम् , निरुपधिशेष च । तत्र निरवशेषस्थाविद्या25 रागादिकस्य क्लेशगणस्य प्रहाणात् सोपधिशेषं निर्वाण मिष्यते । तत्रोपधीयतेऽस्मिन्नात्मस्नेह इत्यपधिः। उपधिशब्देन आत्मज्ञप्तिनिमित्ताः पञ्चोपादानस्कन्धा उच्यन्ते। शिष्यत इति शेषः। उपधिरेव शेष उपधिशेषः । सह उपधिशेषेण वर्त्तते इति सोपधिशेषम् । किं तन्निर्वाणम् । तञ्च स्कन्धमात्रकमेव केवलं सत्कायदृष्टयादिक्लेशतस्कररहितमवशिष्यते निहताशेषचौरगणग्राम मात्रावस्थानसाधर्म्यण, तत्सोपधिशेषं निर्वाणम् । यत्र तु निर्वाणे स्कन्धमात्रकमपि ना स्त 30 तन्निरुपधिशेषं निर्वाणम् । निर्गत उपधिशेषोऽस्मिन्निति कृत्वा । निहताशेषचौरगणस्य ग्राममात्रस्यापि विनाशसाधर्येण ।” [ माध्यमिकवृ० पृ० ५१९] पृ० २६. पं० ११. 'तदभोक्ता-सांख्या हि विरते प्रकृतिसंयोगे मुक्तयवस्थायां पुरुषमभोक्तारं साक्षिणमामनन्ति । तथाहि-"प्रकृतेः सुकुमारतरं न किश्चिदस्तीति मे मतिर्भवति । या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम् । 35 प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः ॥" [ सांख्यका० ६१,६५ ] इति लघीयस्त्रयस्य टिप्पणानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy