________________
लघीयस्त्रयस्य
[पृ० २१. पं० २५
" एवमेते त्रयः सकलादेशा भाष्येणैव विभाविताः संग्रहव्यवहारनुसारिण श्रात्मद्रव्ये । सम्प्रति विकलादेशाश्चत्वारः पर्यायनयाश्रया वक्तव्यास्तत्प्रतिपादनार्थमाह भाष्यकारः - देशादेशेन विकल्पयितव्यमिति विवक्षायत्ता च वचसः सकलादेशता विकलादेशता च द्रष्टव्या । द्रव्यार्थ जात्यभेदात् तु सर्वद्रव्यार्थभेदानैवैकं द्रव्यार्थं मन्यते, यदा पर्यायजात्यभेदांश्चैकं पर्या5 या सर्व पर्यायभेदान् प्रतिपद्यते, तदा त्वविवक्षितस्वजातिभेदत्वात् सकलं वस्तु एकद्रव्यार्था - भिन्नम् एकपर्यायार्थाभेदोपचरितं तद्विशेषैकाभेदोपचरितं वा तन्मात्रमेकमद्वितीयांशं ब्रुवन् सकलादेशः स्यान्नित्य इत्यादिस्त्रिविधोऽपि नित्यत्वानित्यत्व युगपद्भावैकत्वरूपैकार्थाभिधायी । यदा तु द्रव्यपर्यायसामान्याभ्यां तद्विशेषाभ्यां वा वस्तुन एकत्वं तदतदात्मकं समुच्चयाश्रयं चतुर्थविकल्पे स्वांशयुगपद्वृत्तं क्रमवृत्तं च पञ्चमषष्ठसप्तमेषूच्यते तथाविवक्षावशात् तदा तु तथा 10 प्रतिपादयन् विकलादेशः ।” [ तत्त्वार्थभा० टी० पृ० ४१६ ]
१५०
“तत्र विवक्षाकृतप्रधानभावसदाद्येकधर्मात्मकस्यापेक्षितापराशेषधर्मक्रोडीकृतस्य वाक्यास्य स्यात्कारपदलाञ्छितवाक्यात् प्रतीतेः स्यादस्ति घटः स्यान्नास्ति घटः स्यादवक्तव्यो घटः इत्येते त्रयो भङ्गा सकलादेशाः । विवक्षाविरचितद्वित्रिधर्मानुरक्तस्य स्यात्कारपदसंसूचितसकलधर्मस्वभावस्य धर्मिणो वाक्यार्थरूपस्य प्रतिपत्तेः चत्वारो वक्ष्यमाणका विकलादेशाः स्यादस्ति 15 च नास्ति घट इति प्रथमो विकलादेशः स्यादस्ति चावक्तव्यश्च घट इति द्वितीयः स्यान्नास्ति चावक्तव्यश्च घट इति तृतीयः स्यादस्ति च नास्ति चावक्तव्यश्च घट इति चतुर्थः ।" [सन्मति ० टी० पृ० ४४६ ]
30
उ० यशोविजयैः यद्यपि शास्त्रवा० टी० - जैनतर्क भा० - गुरुतत्वविनिश्चयादौ सर्वेषु भंगेषु सकलादेश विकला देशोभयरूपता सिद्धान्तीकृता । तथापि तैः अष्टसहस्रीविवरणे 'आद्याः त्रयो 20 भंगाः सकलादेशाः शिष्टाश्च चत्वारो विकलादेशाः' इत्यपि कृतान्तीकृतम् । तथाहि - " ... किन्त्वाद्यभङ्गद्वयघटकनिजपररूपयोः श्रृंगग्राहिकया व्यवस्थापन एव नयभेदो मतभेदो योपयुज्यते, तृतीयभंगस्त्ववक्तव्यत्वलक्षणः ताभ्यां युगपदादिष्टाभ्यां तद्भेदादनेकभेद इत्येते त्रयो निरवयवद्रव्यविषयत्वात् सकलादेशरूपाः, सदसत्त्व - सद्वक्तव्यादयश्चत्वारस्तु चरमाः सावयवद्रव्यविषयत्वाद्विकला देशरूपाः, देशभेदं विनैकत्र तु क्रमेणापि सदसत्त्वविवक्षा सम्प्रदाय25 विरुद्धत्वात् नोदेतीति न निरवयवद्रव्यविषयत्वमेषामित्यस्मदभिमतोक्तमेव युक्तमिति मन्तव्यम् ।" [ अष्टसह० विव० पृ० २०८ B. ] शास्त्रवार्त्ताटीकायाम् अयमेव सिद्धान्तः 'केचित्तु ' इति कृत्वा निर्दिष्टः । तथाहि - "केचित्तु - अनन्तधर्मात्मक वस्तुप्रतिपादकत्वाविशेषेऽपि धात्रय एव भंगा निरवयवप्रतिपत्तिद्वारा सकलादेशाः अग्रिमास्तु चत्वारः सावयवप्रतिपत्तिद्वारा विकलादेशाः इति प्रतिपन्नवन्तः ।" [शास्त्रवा० टी० पृ० २५४ B.]
>
पृ० २१. पं० २५. 'स्याज्जीव एव' - मलयगिर्याचार्याः स्यात्पदप्रयोगं प्रमाणवाक्ये एव उरकुर्वन्ति । एतन्मतानुसारेण सर्वेषां नयानां मिथ्यारूपत्वात् । अतस्तै ः 'स्यात्पदलाच्छितो नयः सम्यग्' इत्यकलङ्कमतस्य समालोचना कृता । समन्तभद्र-सिद्धसेन दिवाकरादिभिः उपज्ञातम् अकलंकमतं हेमचन्द्रादयः समर्थयन्ति । ( द्रष्टव्यम् - टिप्पणं पृ० १४२ पं० १३ )
मलयगिरिकृता समालोचना इत्थम् - "नयचिन्तायामपि च ते दिगम्बराः स्यात्पदप्रयोग35 मिच्छन्ति तथा चाकलङ्क एव प्राह - नयोऽपि तथैव सम्यगेकान्तविषयः स्यात्' इति । अत्र टीकाकारेण व्याख्या कृता- नयोऽपि नयप्रतिपादकमपि वाक्यं न केवलं प्रमाणवाक्यमित्यपि - शब्दार्थः, तथैव स्यात्पदप्रयोगप्रकारेणैव सम्यगेकान्तविषयः स्यात्, यथा स्यादस्त्येव जीव इति । स्यात्पदप्रयोगाभावे तु मिथ्यैकान्तगोचरतया दुर्नय एव स्यादिति । तदेतदयुक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org