________________
पृ० २१. पं० २०-२१.] टिप्पणानि
१४६ यथा मतः । तथा ज्ञानं स्वहेतूत्थं स्वयं तद्ग्राहकं मतम् ।।" [ सिद्धिवि० टी० पृ० १० B. ] न्यायवि० वि० पृ० ३३ A.
पृ० २१. पं० १४. 'उपयोगौ'-"तदुक्तम्-उपयोगी श्रुतस्य द्वौ प्रमाणनयभेदतः।" [सिद्धिवि० टी० पृ० ४ A. ]
पृ० २१. पं० १६ 'स्याद्वाद'-"स च तिङन्तप्रतिरूपको निपातः । तस्याने- 5 कान्तविधिविचारादिषु बहुष्वर्थेषु संभवत्सु इह विवक्षावशादनेकान्तार्थो गृह्यते।" [ राजवा० पृ० १८१] "निर्दिश्यमानधर्मव्यतिरिक्ताशेषधर्मान्तरसंसूचकेन स्याता युक्तो वादोऽभिप्रेतधर्मवचनं स्याद्वादः ।” [ न्यायावता० टी० पृ० ९३ ]
पृ० २१.पं० १७. 'ज्ञानदर्शन'-तुलना-"स्यात्प्रदप्रयोगात्तु ये ज्ञानदर्शनसुखादिरूपा असाधारणा ये चामूर्त्तत्वासंख्यातप्रदेशसूक्ष्मत्वलक्षणा धर्मा धर्माधर्मगगनास्तिकाय- 10 पुद्गलैः साधारणाः येऽपि च सत्त्वप्रमेयत्वधर्मित्वगुणित्वादयः सर्वपदार्थैः साधारणास्तेऽपि च प्रतीयन्ते ।” [ आव० नि० मलय० पृ०१७० A. ]
पृ० २१. पं०२०-२१. साकल्य.. वैकल्य'-सकलादेश-विकलादेशयोः स्वरूपे प्रायः ऐकमत्येऽपि केचिदकलंकाद्याचार्याः सर्वानपि भंगान् एकधर्ममुखेन अशेषधर्मात्मकवस्तुप्रतिपादनकाले सकलादेशरूपान् एकधर्मप्रधानतया अन्यधांश्च गौणतयाऽभिधानसमये 15 विकलादेशात्मकान् स्वीकुर्वन्ति । केचिच्च सिद्धसेनगणिप्रभृतयः सदसदवक्तव्यरूपं भंगत्रयम् सकलादेशत्वेन शिष्टांश्च चतुरो भंगान विकलादेशरूपेण मन्यन्ते । तथा च तेषां ग्रन्थाः
"तथा चोक्तम्-सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीन इति ।" [ सर्वार्थसि० ११६] "तत्र यदा योगपद्यं तदा सकलादेशः एकगुणमुखेनाशेषवस्तुरूपसंग्रहात् सकलादेशः।" ''तत्रादेशवशात् सप्तभंगी प्रतिपदम् । यदा तु क्रमं तदा विकलादेशः (पृ० १८०) निरंश- 20 स्यापि गुणभेदादंशकल्पना विकलादेशः। तत्रापि तथा सप्तभंगी।" [ राजवा० पृ० १८१] नयचक्रवृ० पृ० ३४८ B. "सकलादेशो हि योगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदवृत्त्या प्रतिपादयति अभेदोपचारेण वा, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचारेण भेदप्राधान्येन वा" [ तत्त्वार्थश्लो० पृ० १३६ ] प्रमेयक० पृ० २०७ A. सप्तभंगि० पृ० ३२ । प्रमाणनय० ४।४४, ४५। जैनतर्कभा० पृ० २० ।।
"इयं सप्तभंगी प्रतिभंगं सकलादेशस्वभावा विकलादेशस्वभावा च ।” [प्रमाणनय० ४। ४३ ] जैनतर्कभा० पृ० २० । गुरुतत्त्ववि० पृ० १५ A. शास्त्रवा० टी० पृ० २५४ A. “यदा मध्यस्थभावेनार्थित्ववशात् किंचिद्धम प्रतिपादयिषवः शेषधर्मस्वीकरणनिराकरणविमुखया धिया वाचं प्रयुञ्जते तदा तत्त्वचिन्तका अपि लौकिकवत् सम्मुग्धाकारतयाचक्षते-यदुत जीवोऽस्ति कर्ता प्रमाता भोक्तेत्यादि, अतः सम्पूर्णवस्तुप्रतिपादनाभावात् विकलादेशोऽभिधीयते नयमतेन 30 संभवद्धर्माणां दर्शनमात्रमित्यर्थः । यदा तु प्रमाणव्यापारमविकलं परामृश्य प्रतिपादयितुमभिप्रयन्ति तदाङ्गीकृतगुणप्रधानभावा अशेषधर्मसूचककथश्चित्पर्यायस्याच्छब्दभूषितया सावधारणया वाचा दर्शयन्ति 'स्यादस्त्येव जीवः' इत्यादिकया, अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्दक्रियाभ्यां प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसंभवस्य वस्तुनः सन्दर्शकत्वात् सकलादेश इत्युच्यते । प्रमाणप्रतिपन्नसम्पूर्णार्थ- 35 कथनमिति यावत् । तदुक्तम्-सा ज्ञेयविशेषगतिर्नयप्रमाणात्मिका भवेत्तत्र । सकलग्राहितु मानं विकलग्राही नयो ज्ञेयः ॥ [ न्यायावता० टी० पृ० ९२]
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org