________________
श्रीमद्भट्टाकलङ्कविरचितः
॥ प्रमा ण स ङ्ग हः ॥
॥ नमः श्रीवर्द्धमानाय ॥
श्रीमत्पमर (त्परम) गम्भीरस्याद्वादामोघलाञ्छनम् । जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनम् ॥ १ ॥ [s १. प्रत्यक्षं विशदज्ञानं त्रिधा श्रुतमविप्लवम् ।
परोक्षं प्रत्यभिज्ञादि प्रमाणे इति संग्रहः ॥ २ ॥ ]
१. प्रथमः प्रस्तावः
$ १. प्रत्यक्षं विशदज्ञानं तत्त्वज्ञानं विशदम्, इन्द्रियप्रत्यक्षम् अनिन्द्रिय- 5 प्रत्यक्षम् अतीन्द्रियप्रत्यक्षम् त्रिधा । श्रुतम् अविप्लवम् प्रत्यक्षानुमानागमनिमित्तम् । परोक्षं * प्रत्यभिज्ञादि स्मरणपूर्वकम् । हिताहितप्राप्तिपरिहारसमर्थं द्वे एव प्रमाणे इति शास्त्रार्थस्य सङ्ग्रहः, प्रतिभासभेदेन सामग्रीविशेषोपपत्तेः ॥छ ||
१३
प्रामाण्यमप्रसिद्धार्थख्यातेरर्थानुकारिणः ।
व्यभिचारादनिर्णीतं व्यावृत्तं सर्वतो गतम् ॥ ३ ॥
S २. प्रमाणम् अच्युत्तन्न ( अव्युत्पन्न ) सन्दिग्धविपर्यस्तार्थप्रतीतौ विषया.नुविधायिनोऽकिञ्चित्करारेकाविपर्यासाऽनिवृत्ते ( त्तेः ) सर्वथा सारूप्यासंभवात् । अर्थोपलम्भाद्यवसायसामर्थ्य अन्यकल्पनावैयर्थ्य (र्थ्या) त् । तज्जन्मसारूप्याध्यवसायस्य अन्यत्र वृत्तिः भ्रान्तिकारणवत् । निष्कलानामेतन्न भवति, सकलव्यवच्छेदनिर्णयाऽनिर्णयादिप्रसङ्गः ॥छ ||
अक्षज्ञानमनेकान्तमसिद्धेरत्प (रप) राकृतेः ।
स्पष्टं सन्निहितार्थत्वाद् भावनातो निवर्त्तते ॥ ४ ॥
९ ३. चक्षुरादिज्ञानं सविकल्पकं सामान्यविशेषात्मविषयं वर्णसंस्थानादिमतः
* प्रत्यभिज्ञा स्मृति ऊह
Jain Education International
10
For Private & Personal Use Only
15
www.jainelibrary.org