________________
४२
10
न्यायविनिश्चये
[ कारि०८८-६५ एतत्समानमन्यत्र भेदाः संविदसंविदोः ॥८॥ न विकल्पानपाकुन्निरन्तर्यानुबन्धिनः।
आहुरर्थबलायातमनर्थमविकल्पकाः ॥८९॥ [$ २६. इदमेव अनेकान्तवादिनमुपहसतः सौगतस्य प्रत्युपहासं दर्शयन् व्याचष्टे-]
चित्रं तदेकमिति चेदिदं चित्रतरं ततः।
चित्रं शून्यमिदं सर्वं वेत्ति चित्रतमं ततः ॥१०॥ [ १००. ततो न यथोक्तं बाह्यमसत् , नापि विभ्रममात्रम् , सकलविकल्पविकलं वा, तत्प्रतिषेधस्याभिहितत्वात् । नापि संवृतिमात्र (त्रं) स्पष्टप्रतीतिविषयस्य तत्त्वानुपपत्तेः । तदाह-]
तस्मान्नैकान्ततो भ्रान्ति ऽसत्संवृतिरेव वा।
अतश्चार्थबलायातमनेकात्मप्रशंसनम् ॥९॥ [ १०१. सुगतसन्निधानात्तद् (चित्रज्ञानं) अवगम्यत इति चेन्न; अद्वैतवादे सुगतस्यैवाभावात् । भावेऽप्युत्तरमाह-]
न ज्ञायते न जानाति न च किञ्चन भाषते ।
बुद्धः शुद्धः प्रवक्तेति तत्किलैषां सुभाषितम् ॥१२॥ 15 [ १०२. न च कार्याभावादसत्त्वं कार्येण सत्त्वव्याप्तेरभावात् इति न कार्याभावात् तद्वय ( तदद्वय ) स्याभावः, एतदेवाह-]
न जातं न भवत्येव न च किश्चित्करोति सत् । [ १०३. उत्तरमाह-]
तीक्ष्णं शौद्धोदनेः शृङ्गमिति किन्न प्रकल्प्यते ? ॥९३॥ 20 [६ १०४. ततो युक्तं विज्ञानवदर्थस्यापि प्रतीतिबलादवस्थापनम् । इदानीं वक्तव्यशेषं दर्शयित्वा परिहर्तुमाह-]
एकेन चरितार्थत्वात्तत्राविप्रतिपत्तितः।
अलमर्थेन चेत् ; [६१०५. उत्तरमाह-]
नैवमतिरूढानुवादतः ॥१४॥ [ १०६. ततः प्रतीतिबलाद्विज्ञानस्य यदस्तित्वं तदर्थस्यापि, यच्च अर्थस्याऽपरमार्थत्वं विशददर्शनपथप्रस्थायित्वात्तैमिरिककेशादिवत् तद् विज्ञानस्यापि स्यादविशेषात् । तदाह-]
कल्पना सदसत्त्वेन समा किन्तु गरीयसी । प्रतीतिप्रतिपक्षेण तत्रैका यदि नापरा ॥९॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org