________________
5
10
सटिप्पनकं कौटलीयमर्थशास्त्रम्
देवताश्रमपापं श्रोत्रिय पशुपुण्यस्थांनानां स्त्रीणां च क्रमेण कार्याणि पश्येत् । कार्यगौरवादात्ययिकवशेन वा । सर्वमात्यकिं कार्यं श्रुणुयान्नातिपातयेत् । कृच्छ्रसाध्यमतिक्रान्तमसाध्यं वापि जायते ॥ [ ३४प्र.] अभ्यंगार गतः कार्यं पश्येद्वैद्यतपस्विनाम् । पुरोहिताचार्य सेखः प्रत्युत्थायाभिवाद्य च ॥ तपस्विनां तु कार्याणि त्रैविद्यैस्सह कारयेत् । मायायोगविदां चैव न स्वयं कोपकारणात् ॥ राज्ञो " हि व्रतमुत्थानं यज्ञः कार्यानुशासनम् । दक्षिणा वृत्तिसौम्यं तु दीक्षा तस्याभिषेचनम् ॥ तथा चोक्तम्
४८
१ देवद्रव्यादिनिमित्तो विवादः ।
२ तीर्थतडागादीनाम् ।
३ अप्राप्तव्यवहाराणाम् ।
४ देवताकार्यं यद्यल्पा.
न तपोभिर्व्रतैर्यज्ञः पुण्यमाप्नोति पार्थिवः । संरक्षितप्रजाधर्मात्षष्ठमंशं यथानुवन् ॥ प्रजार्मुखे सुखं राज्ञः प्रजानां च हिते " हितम् । नीत्मप्रियं हितं राज्ञः प्रजानां हि' प्रियं हितम् ॥
५ अत्ययो विनाशो यस्य दृश्यते तदेवादौ पश्येत् ।
६ अनुष्ठानावसानं कुर्यात् ।
७ होमशालास्थितः । अग्निप्रत्यक्षं साक्षिणः प्रष्टव्या इति ।
८ पंडिततपस्विनामा दरख्यापनार्थम् ।
९ पुरोहितोपाध्यायानां सखा भूत्वा संशय विच्छेदार्थम् ।
१० तेषामभ्यर्हितत्वात् ।
११ स्तंभ मोहादिप्रयोगविदाम् ।
१२ कुपिता मूर्खतपस्विनः शापं प्रयच्छति ।
बालवृद्धव्याधितव्यसन्यनाथानां
१३ *
१४ अन्याय निवारणम् ।
१५ रिपौ सुतेऽपि वा शास्त्रोक्तदंडधारणात् ।
३६ मात्स्यन्यायप्रतिषेधात् ।
१७ इहलोक सिद्धिलक्षणं राज्ञो भवति ।
१८ स्वधर्मप्रवर्तने तद्धर्मषडंशावाप्तिः ।
१९ मृगयादिव्यसनं हितं राज्ञो उभयलोकविरोधात् ।
२० रक्षानिराकुलत्वम् ।
२१ राज्ञो हितं लोकद्वय संसिद्धेः ।
Jain Education International
1SC वा विजायते ; वाभिजायते । 2 च । 3 व दीक्षितस्याभिषेचनम्। 4 sJG
मुद्रितेषु पुस्तकेषु ' तथा चोक्तं ..........
• यथाप्नुवन्' नास्ति | 5 SJG तु ।
For Private & Personal Use Only
www.jainelibrary.org