________________
सटिप्पन कौटलीयमर्थशास्त्रम् • प्रतिष्ठितेऽहनि सन्ध्यामुपासीत । प्रथमे रात्रिभागे गूढपुरुषान् पश्येत्। द्वितीये स्नानभोजन सेवेत स्वाध्यायं च कुर्वीत । तृतीये तूर्यघोषण संविष्टेः, चतुर्थपंञ्चमौ शयीत । षष्ठे रात्रिभागे तूर्यघोषेण प्रतिबुद्धः शास्त्रमितिकर्तव्यतां च चिन्तयेत् । सप्तमे मन्त्रमध्यासीत गूढपुरुषांश्च [ ३३ द्वि.] प्रेषयेत् । अष्टमे ऋत्विगाचार्यपुरोहित[सखः] स्वस्त्ययनानि प्रतिगृह्णीयात् । । चिकित्सकमहानसिकमौहूंर्तिकांश्च पश्येत् । सवत्सां धेनुं वृषभं प्रदक्षिणीकृत्योपस्थानं गच्छेत् ।
आत्मबलानुकूल्येन वा निशाह गान् प्रविभज्य सेवेत ।
उपस्थानगतः कार्यार्थिनामद्वारासंगं कारयेत् । दुर्दों हि राजा कार्याकार्यविपर्यासमासन्नैः कार्यते । तेन प्रकृतिकोपरिवशं वा गच्छेत् । तस्मा..
१ समाते। २ स्मार्तधर्मशिष्टाचारस्य प्रतिपालनार्थम् । ३ [अ]प्रकाश्यत्वात् । ४ स्नानं स्वेदाथपनोदार्थम् । भोजनं बलाधानार्थम् । उक्तं च
अजीर्णे भुज्यते यच्च यच्च जीणे न भुज्यते ।
रात्रौ न भुज्यते यञ्च तेन जीयंति मानवा इति ॥ ५ शय्यामारूढः । संविष्टः शब्दप्रयोगः कामं सूचयति सुरतप्रकाराणां संवेशनाभिधानात् । ६ अभ्यागाराधिकृताः। ७ आशीर्वादान् अभ्युदयार्थम् । ८ स्वास्थ्यास्वास्थ्यपरिज्ञानार्थम् । ९ काल-कायोचिताहारपाकोपदेशार्थम् । १० शुभाशुभदिवस ग्रहगतिपरिज्ञानार्थम् । आ[दिवा] रात्रकृतपापापनोदा[र्थम् ] । ११ धेनुं ब्राह्मणाय दरवा आस्थानं गच्छेत् । १२ भास्मनः शरीरस्य बलममिबलाद्भवति । तदानुकूल्येन निशाहर्भागान् प्रविभज्य सेवेत ।
तत्तृतीयेऽहर्भागे भोजनमभिहितं तस्य बुभुक्षाकाल एवाहर्भागः । तत्र यद्विधेयं तत्तुतीये कुर्यात् । तथा चतुर्थपंचमौ शयीतेत्युक्तं शरीरसाम्यवशात् न्यूनमधिकं वा कालम् । तथा स्त्रानभोजने च क्षणानां व्यत्ययो भवतु । निर्दिष्टानुष्ठानान्यनुष्ठेयान्येव । उक्तं च
स्वस्वकर्मवशात्सर्वं कर्म कुर्वीत पार्थिवः ।
मयोपदेशः कृत्स्नोऽयमात्मार्थ हि विधीयत इति ॥ द्वितीये दिनाष्टविभागे विधेयमेव । प्रजापरिरक्षणार्थमाह । १३ पुरुषार्थप्राप्त्यनर्थप्रतीकारादिकार्यार्थिनां प्रवेश निषेधाभावम् । १४ भदंड्यो दंड्यः दंड्यो अदंड्य इति । १५ -विरक्ता यांत्यमित्रं वा भर्तारं नंति वा स्वयम् ॥
1. S.ICE कुर्वीत । SJa 'कुर्वीत' नास्ति । 3 SIG 'रात्रिभागे' नास्ति। 4 SJG माहानासिक ।5 sJd वृषभं च । 6s Jvi G प्रतिविभज्य। 7 SJG कार्याणि सेवते । 8 svl पनिमासमा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org