________________
सटिप्पनकं कौटलीयमर्थशास्त्रम्
३५
रत्तिगुप्तिच्छिद्राणि चोपलभेत । पराधिष्ठानमनुज्ञातः प्रविशेत् । शासनं च यथोक्तं ब्रूयात् । प्राणीबाधेऽपि दृष्टे पर २६ द्वि. ] स्य वाचि वक्रे दृष्ट्यां च प्रसादं वाक्यपूजनमिष्टपरिप्रश्नं गुणकथासंगमासन्नमासनं सत्कारमिष्टेषु स्मरणं विश्वासगमैनं च लक्षयेत्तुष्टस्य विपरीतमतुष्टस्यै ।
5
तं ब्रूयात् दूतमुखी हि राजानस्त्वं" चान्ये " च तस्मादुद्यतेष्वपि शस्त्रेषु यथोक्तं" वक्तारो दूताः । तेषामन्तावसायिनोऽप्यवध्याः । किमङ्ग पुनर्ब्राह्मणाः । परस्यैतद्वाक्यमेष दूतधर्म इति" ।
" वसेदेवि [ सृ]ष्टः
। पूँजया' नोत्सिक्तः । परेषु बलित्वं " न
१ कृष्यादीनां येन वर्तते । तनिरोधार्थम् ।
२ गुप्तिं रक्षाम् ।
३ रक्षाशैथिल्यं व्यसनादि वा छिद्रम् ।
•४ अनुज्ञात इति वर्तते ।
५ शास्त्रेण स्वामिना वा ।
६ आत्मनो विनाशेऽपि दृष्टे ।
७ प्राणाबाधश्चान्नतमिंगितादिभिर्दृश्यते । तावत्तुष्टेरिंगितमाह ।
८ दूतवाक्यस्य साधूक्तमिति ।
९ दूतस्य दूतस्वामिनो वा ।
१० इष्टेषु परस्य संपन्नेषु दूतस्य स्मरणम् ।
११ गुह्याख्यानादि ।
१२ विपर्ययाख्या तंत्रयुक्तिरियम् ।
१३ तं अतुष्टं प्राणाबाधपरिहारार्थं ब्रूयात् ।
१४ न केवलमस्मरस्वाम्येव त्वं च ।
१५ भूतभविष्यवर्तमाना राजानः । १६ स्वामिनेति शेषः ।
३७ ब्राह्मणोऽपि ब्राह्मणसमो दूतो द्रष्टव्यः । अब्राह्मणस्य च दूतत्वप्राप्तिः वक्ष्यमाणात्पाननिषेधात् । उक्तं च मनुना यथोक्तवादिनं दूतं क्षत्रधर्ममनुस्मरन् ।
यो हन्यात्पितरस्तस्य भ्रूणहत्या मवामुयुरिति ॥
१८ परस्यैतद्वाक्यमेष दूतधर्म इति । परस्य विजिगीषोरेतद्वाक्यं न मया त्वेषादभिधीयते इति भावः । तत्त्वं किमिति ब्रूषे एवं चेत् एष दूतस्य धर्मः ।
१९ दूतसमाचारमाह । २० परेणेति शेषः ।
२१ परकृतया ।
२२ दुर्बलेष्वपि ।
२३ स्वामिबलादात्मबलाद्वा बलवानिति वाक्पारुष्यं न ब्रूयादित्यर्थः ।
।
1.J°मिष्टेऽनुसरणं | 2svlavl दूतमुखेन राजा । 3sJa वै द्यते । 5 s वक्तारस्तेषां । 6 svl avl ' मन्तेवासिनो | 7 s ब्राह्मणः । 9 SJ प्रपूजया; svl पूजया ।
Jain Education International
For Private & Personal Use Only
4s ° दुद्धृते; svl 8 svl 'दवसृष्टः ।
www.jainelibrary.org