SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ नौतिनिणीतिनानी अहालकप्रतोलीमध्ये त्रिधानुष्काधिष्ठानं संपिधानं छिद्रफलकसंहतमिंद्रकोशं' कारयेत् ॥” [२.३.१७] अट्टालकप्रतोलीमध्ये सार्द्धदशांगुलोपेतचतुर्दशदंडप्रमाणेऽत्रापि वीप्सैव त्रिधानुष्काधिष्ठानं पंचारनिधनुस्तत्र धन्विनं स्थापयेदिति वचनात् । त्रयाणामधिष्ठानं पंच। दशहस्तायतं भवति । सापिधानैश्छिद्रफलकैस्संहतम् । सच्छिद्रफलकत्वं शरनिर्गमार्थ सापिधानत्वं परशरप्रतिस्खलनार्थम् । इंद्रकोशं इंद्राकार: कोशः । अक्षिसमानसहनच्छिद्रोपेतत्वात्तं कारयेत् ॥ छ । अंतरेषु द्विहस्तविष्कभं पार्थे चतुर्गुणायाम देवपथं कारयेत् ॥ [२.३.१८] 10 अंतरेषु स(सा)द्वैकत्रिंशदंगुलाय"तपंचदंडेषु द्विहस्तविष्कभम् । पार्षे प्राकारबहिःपार्श्वे चतुर्गुणायाम अष्टहस्तं सारदारुमयम् । ताम्रपत्रिकाबद्धमधाकृतसरमार्ग सर्वतः छादितं देवपथमा प्रवेशनिर्गमत्वात् प्राकारमूलरक्षणार्थं कारयेत् ॥छ। [13B] दंडांतरा द्विदंडांतरा वा चर्याः कारयेत् ॥ [२.३.१९] दंडांतरा चतुर्हस्तांतरा द्विदंडांतरा वा अष्टहस्तांतराश्चर्या उत्सेधसमावक्षेप॥ सोपाना अस्यांतरतः कारयेत् प्राकारारोहणार्थम् । प्राकार समालक्ष्य...... । अष्टा"लकसोपानानि तु महान्ति एकदैव बहुपुरुषारोहणार्थानि । चर्यारूढाश्च योधाः कपिशीर्षकाच्छादिता युध्यते । अग्राह्ये देशे प्रधावनिका(का) निष्किरद्वारं चेति ॥ [२.३.२०] महाखातवप्रयोर्मध्ये चतुर्दडप्रमाणेऽवकाशे गोमूत्रिकाकारा पुरुषप्रमाणमुंडप्रा0 कारेणाग्राह्ये परेषां निष्किरद्वारैर्निर्गत्य परिखारक्षार्थं प्रधावंति योधा अस्यामिति प्रधावनिकां कारयेत्।" निष्किरद्वारं च अग्राह्य एव देशे देवपथस्याधस्तात् प्राकारकुक्षिप्रदेशेषु, निष्किरद्वारं निष्कीयते बहिःपरिखारक्षार्थ योधा येन तदारोहणावतरणार्थं कृतं तिर्यप्राकारबाह्यभित्तिषु खल्पतरसोपानं कालायसदृढकपाटं कारयेत् । जातावेकवचनम् । वक्ष्यति च दुर्गलंभोपाये 'निष्किरादुपनिष्कृत्य दुर्गस्थान् घातयेदिति । ४ परिखादीनां रक्षार्थमाह ।* Svl. G सा; S, J स| The Ms. here reads स° but in the comm. सा। २ SJG °मितीन्द्रकोशं । ३ SJG °गुणायाममनुप्राकारमष्टहस्तायतं । ४ The Ms. reads देवपकथं । ५ SJ चार्या:; Svl. चर्या; G वाचार्या but in his comm. he seperates वा from चार्याः, the latter explained as भारोहावरोहे भूमिः। T चार्य =paths । ६SJG प्रधावितिकां । ७SJ निष्कुर; Svl. निष्कर; G निष्कुहद्वारं = कोटरविचरं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002502
Book TitleArthashastra aparnama Rajsiddhanta
Original Sutra AuthorKautilya Acharya
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy