________________
मुग्धविलासाङ्क-योग्घमविरचिता नी ति नि ी त्य भि धा ना
कौटलीय-राजसिद्धान्त-टीका
द्वितीयमधिकरणम् । [जनपदनिवेशनामा प्रथमोऽध्यायः।]
इदानीमध्यक्षप्रचारो द्वितीयमधिकरणमभि[ धीयते]........." []थ्वीभागो जनपदस्तस्मिंश्चातुर्यादेर्यथायोगमवस्थापनमिति सूत्रार्थः।........." रे जनपददुर्गकोशदंडादीनामभिधीयत इति महासंबंधः। अनंतरसंबंधस्तु तंत्रावापयोः साधारणत्वादा......... सुप्रतिविहिततंत्रस्यावापेधिकारः । तंत्रं चाध्यक्षप्रचारधर्मस्थीयकंटकशोधनयोगवृत्तपर्यंत तेषामादावधिकरणमध्यक्षप्रचारः। अध्यक्षा इति खव्यापारे......... नि सावधानतयाक्षी." णींद्रियाणि येषां ते प्रचरंत्यनेनेत्यध्यक्षप्रचारः। तस्याप्यादौ जनपदः सर्वकर्मणां योनिरिति । जनपदनिवेश इत्यनंतरसंबंधः । अथवा...... राजा राज्यं रक्षतीत्युक्तं च । राज्यं च जनपद एव यस्माजनपदादेव सर्वप्रकृतीनामुत्पत्तिरुक्तं च ।
'मात्स्यन्यायाभिभूताः प्रजा मनुं वैवस्वतं राजानं प्रचक्रिरे।' । पश्चाद्राजा मंत्रिणमुत्पादयति । जनपदादेव दुर्ग कोशो दंडश्च । तस्मादेव मित्रव्यवस्था । भूमेरेकातरं मित्रमित्येवं जनपदः शेषप्रकृतीनां योनिस्तस्यादौ लाभः पालनं चाभिधीयते ।*
भूतपूर्वमभूतपूर्व वा जनपदं परदेशापवाहनेन स्वदेशाभिष्यंदवमनेन वा निवेशयेदिति ॥ [२.१.२.]
पूर्व भूतो भूतपूर्वः । निविष्टपूर्व इत्यर्थः । अभूतपूर्व"स्तद्विपरीतः । अनिविष्टपूर्वे जनपदशब्दो न प्रवर्तते । पर्वतसमुद्रादौ कथं तस्य निवेश इति चेत्, स्मर्यमाणनिवेशो " भूतपूर्वः खल्पवीरुल्लतादिसुखसाध्यः, अस्मर्यमाणनिवेशो महावृक्षावलुप्तनिःशेषनिवेशचिह्नो दुःखसाध्य इति भावः । तमुभयखरूपं । परदेशापवाहनेन परदेश इति । तत्रस्था:} प्रजास्तासामपवाहनेना"[18] कर्षणेन [1] तच्च द्विधा दंडेन दाहलोपविध्वंसमयदर्शनेन
+ The Ms. begins with the words "६० ॥ ॐ नमः सर्वज्ञाय ॥"
The dots indicate that some letters have been lost as a part of the palm-leaf is broken here.
(1) These figers indicate the end of the lines.
* This asterisk shows that there is such mark "॥ छ ॥" in the Ms. at this place.
J परदेशप्रवाहेण; T परवेशप्रवाहणेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org