________________
सटिप्पनक कौटलीयमर्थशास्त्रम्
द्वितीयमधिकरणम् ।
_ [जनपदनिवेशः।] जनपदनिवेश इति सूत्रम् । भूतपूर्वमभूतपूर्व वा जनपदं परदेशापवाहनेन स्वदेशाभिष्यंदवमनेन वा निवेशयेत् । . शूद्रकर्षकप्रायं कुलशतावरं पंचकुलर्शतपरं ग्राम क्रोशद्विक्रोशंसीमानमन्योन्यारक्षं निवेशयेत् ।
___ नदी [ ४० प्र. ] शैलवनभ्रष्टिंदरीसेतुबन्धशमीशाल्मलीक्षीरवृक्षानन्तेषु सीना स्थापयेत् ।
अष्टशतग्राम्या मध्ये स्थानीयं चतुःशतग्राम्या द्रोणमुखं द्विशत"ग्राम्याः कार्यटिकं दशग्रामीसङ्ग्रहेण स्थापयेत् । अन्तेष्वन्तपालदुर्गाणि जनपदद्वाराण्यन्तपालाधिष्ठितानि स्थापयेत्।
तेषामन्तराणि वागुरिकशवरपुलिंदचंडालारण्यचरा रक्षेयुः ।
ऋत्विगाचार्यपुरोहितश्रोत्रियेभ्यो ब्रह्मदेयान्यदण्डकाराण्यनिरूपदाया। दकानि प्रयच्छेत् ।
१ जनाश्चातुर्वण्ये ते पद्यतेऽवस्थानं कुर्वति यस्मिन् असौ पृथ्वीभागो जनपदस्तस्मिन् चातुर्व
पर्यादेर्यथायोगमव[स्थापनमिति । ] २ निविष्टपूर्व अनिविष्टपूर्व च । अनिविष्टपूर्वे जनपदशब्दो न प्रवर्तते। पर्वतसमुद्रादौ कथं तस्य निवेश इति चेत् मर्यमाणनिवेशो भूतपूर्वः [स्वल्पवीरलतादिसुखसाध्यः।] अस्मर्यमाणनिवेशो महावृक्षावलुप्त [ निःशेषनिवेशचिन्हो दुःख ] साध्य इति भावः । ३ स्वदेशाभिष्यंदवमनेन वेति । यथा निरासन्ननिम्ने कालांतरेण निःष्यंदो जलसंग्रहो भवति। तद्वत्ततःप्रजाभिष्यंदः सन्ततिबाहुल्यम् । एकस्मिन्नेव कुटुम्बे पुत्रनप्तृभ्रातृभागिनेयादिबाहुल्यात् । न धान्यादिप्राचुर्यात् । मूलकुटुम्बमवस्थाप्य शेषाणामपकर्षणं वमनं तेन वा निवेशयेत् । ४ विध्यादिभिरुपभोग्यत्वात् । ५ कुलशतभेदे मतभेदस्तथा हिचुल्याधाने कुलं विद्यादित्यांभीयाः प्रचक्षते । दंपत्यं कुलमित्येके हलं स्वन्ये प्रचक्षते ॥ इति । चुल्याधान-दंपत्ययोः क्षेत्र-विभागेऽनंगस्वादेकद्वित्रिहलत्वेन कुलं तदुत्तममध्यमावरतयेष्यते। ६ अर्धतृतीयकुलशतकृष्यो मध्यमः साईक्रोशसीमा भवतीत्यर्थादापद्यते । ७ शूद्रादिजातिसमूहो ग्रामः। ८ गोरुतं निशावसाने यावन्तं प्रदेश गवां रुतं व्याप्नोति । पूर्वमाकोशे पश्चिमचिन्ह • उत्तरस्मारकोशे [ दक्षिणचिन्हमिति ।]
1 SG. नास्येतत्सूत्रात्मक वाक्यम् । 25IG शतकुल । 3 sJG गृष्टिदरी। 4 SJC शमीक्षार 1 5 svl वृक्षान्तरेषु सीमां । 6 SI Gvl खार्वटिकं । 7 SIG संग्रहेण संग्रहणं स्थापयेत् । 85 दण्डकराण्याभिरूप। 9 SJG दायकानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org