________________
कुमारपालदेवचरितम् । मूलादर्श लिखिताः परिशिष्टरूपाः
कति श्लोकाः।
5
येषां कम्पितमन्तरात्मभिरपि श्रुत्वा तयोः सङ्गतं, दृष्टं गूर्जरराज कौतुकमिदं चेतः समुत्कण्ठते । उद्योगे भवतश्चलद्गजघटासङ्घट्टभाराकुलभ्रश्यद्भवलये महीतलभुजां किं किं करिष्यन्ति ते ॥१॥ ब्रूमः किञ्चन काश्यपीधव ! भव श्रोतुं क्षणं सोद्यमः, केयं त्वय्यपि राज्ञि निर्मलकले चन्द्रस्य राजश्रुतिः । शान्तं शान्तमथो सितैर्गुणशतैरेकास्तु भाषानिशं, युष्मद्वंशनिवेशकारणमिदं चन्द्रो ननु श्रीपदम् ॥२।। बाई कामु न होइ याहि परही रूपातिरेकाप्पितं, जाते ताहि कुतस्तनुत्रिनयनप्लुष्टाङ्गयष्टिर्जडि । इन्द्रोऽप्येष कि होइ ताहि विलसच्चक्षुःसहस्रं वपुः, जाणं...रि कुमारपालनृपतिर्मूर्तो नयः क्ष्मातले ॥३॥ शीतांशुर्वपुभारसम्भृतरसं खं मण्डलं खण्डशः, क्षीणं वीक्ष्य बत प्रतापवसते पादाश्रितो यद्भवेत् । तेनैवोपनयेन पुष्टिघटनापात्रं पुनः स्यादसौ, साध्यं किञ्चि(ञ्च) दिनस्य किन्तु कमलोल्लासैकहेतोः स्वयम् ||४|| अप्येकाङ्गपरिग्रहस्य भवतः सप्ताङ्गराज्यश्रिया, श्रुत्वा कर्षणकेलिकौशलकलाप्रौढक्रम विक्रमम् ।
10
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.