________________
कुमारपालप्रबोधप्रबन्धः ।
इति द्वेषकारणं ब्राह्मणानां राजा श्रुत्वाऽचिन्तयद् - अहो ! चन्द्रमण्डलादग्निः सुधाकुण्डाद्विषं प्रादुरभूत् । लोकानामभाग्योदयेन श्रीजिनधर्मादपि मिथ्यात्वमभूदिति । श्रीगुरवः प्राहुः - 'राजन्नेते तु दर्शनान्तरं प्रतिपन्नाः सन्ति, कालेन केऽपि निह्नवाः, केऽपि निह्नवाभासाः श्रीजिनवचनान्यथावादिनः स्वमतिप्रकल्पितमतपक्षपातिनः, साधुवेषधारिणोऽपि साध्वाभासाः, प्रमादशीलत्वेनालम्बनपराः, परलोकनिरपेक्षा अनेकधा मतभेदानकार्षुः । एवं 5 राजन् ! स्वमतेऽप्यनेकमतभेदा अभिमानाज्ञानपरवशैः प्रकल्पिताः सन्ति ।
✡
§§९१. अन्यदा कोऽपि मत्सरी श्रीहेमसूरितेजोऽसहिष्णुरेकान्ते राजानमिदमवादीत् -'देव ! प्राय: प्राकृतमेते पठन्ति, सिद्धान्तोऽप्येतेषां प्राकृतमयः । तत् प्रभातेऽश्रोतव्यमिदम् । संस्कृतं स्वर्गिणां भाषा सैव महतां प्रत्यूषे श्रोतव्या श्रेयस्करी चेति | किमर्थं प्रथमं तच्छ्रवणं विधीयते । एतदाकर्ण्य राजाऽविज्ञातभाषाभेदतत्त्वः, 10 किञ्चित्प्राकृतेऽकृतादरस्तत्स्वरूपं श्रीगुरूणामकथयत् । श्रीगुरवः प्राहुः - 'अनुपासितसद्गुरुकुलस्य अविज्ञातवाङ्मयतत्त्वस्य कस्यापीदं वचः । राजन् ! अनेकधा भाषाभेदवैचित्र्येऽपि परं युगादौ प्रथमपुरुषेण ज्ञातत्रैलोक्यस्वरूपेण प्रथमं चतुर्दशस्वरा ऽष्टत्रिंशद्व्यञ्जनरूपा (?) द्विपञ्चाशदक्षरप्रमाणा मातृकैवोपदिष्टा । सा च प्राकृतस्वरूपा सर्वप्रकृतिलोकानामुपकारिणीति । ततो बाह्या येऽष्टत्रिंशद्वर्णास्तैः संस्कारे कृते संस्कृतं 15 जातम् । ततश्चानेकभाषाभेदा अभूवन् । तेन सकलशास्त्रमूलं मातृकारूपं प्राकृतमेव । प्रथमं युगादौ लोकोपकाराय प्रथमं प्राकृतमुपदिष्टं सर्वज्ञैरिति । सर्वाक्षरसन्निपातलब्धीनां श्रीद्वादशाङ्गीनिर्माणसूत्रधाराणां श्रीगणधराणां सिद्धान्तस्य प्राकृतकरणे कारणमिदम्५१०. बालस्त्रीमूढमूर्खाणां नृणां चारित्रकाङ्क्षिणाम् ।
अनुग्रहार्थं तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥
राजन् ! भवतु भाषा याऽपि साऽपि परं परमार्थ एव विलोक्यते । यत्पठन्ति
लोकाः ।
५११. अत्थनिवेसा तच्चिय सद्दा तच्चेव परिणमंता वि । उत्तिविसेसो कव्वं भासा जा होउ सा होउ ॥
१९९
५१२. सो होइ सुहावेई उवभुंजंतो लवो वि लच्छीए । एसा सरस्सई पुण असमग्गा कं न विनडेइ ॥
For Private & Personal Use Only
परं कस्यापि ज्ञानलवदुर्विदग्धस्य खण्डखण्डपाण्डित्यतुण्डकण्डूकरालितस्येयं प्राकृत- 25
निन्दा | यदुक्तम्
Jain Education International
20
www.jainelibrary.org