________________
कुमारपालप्रबोधप्रबन्धः ।
इत्यादि श्रुत्वा राजा संसारासारतां विभाव्य भवभावविमुखपरिणामः संवेगरसतरङ्गितान्तःकरणः श्रीगुरून् प्रणम्य पप्रच्छ-'भगवन् ! अद्य का तिथिः ?' इति । श्रीगुरवः सहसाऽमावास्यादिने पूर्णिमेत्याहुः । अत्र वामराशिर्लब्धावकाशो मिथ्याद्दग् बाह्यमित्रोऽप्यान्तरशत्रुराह-‘अहो ! कलिकालसर्वज्ञः श्रीहेमसूरिचेदद्य पूर्णिमां कथयति तदा लोकानां भाग्येन पूर्णिमैव भविष्यति' - इत्युपहासगर्भं वचः श्रुत्वा श्रीगुरवः प्राहुः- 5 'सत्यमेतत् भवद्वचः'। तेनोक्तम्- 'कोऽत्र प्रत्ययः ?' श्रीगुरुभिरुक्तम्- 'अहो केयं भवतश्चातुरी चन्द्रोदय एव प्रत्ययः । इति श्रुत्वा सर्वेऽपि विस्मयस्मेराः परस्परमाहुः‘किमित्थमपि भविष्यति ? ' । ततो राजा विस्मयगतस्सन् द्वासप्ततिसामन्तादिवृतो राज - सभामागत्य क्व चन्द्रोदयो भविष्यतीति परिज्ञानाय घटीयोजनगामिनीकरभ्यारूढान्निजपुरुषान् पूर्वस्यां दिशि प्राहिणोत् । ततः श्रीहेमसूरिः पूर्वप्रदत्तवरसिद्धचक्रदेवप्रयोगेन 10 पूर्णिमावत् पूर्वस्यां सन्ध्यासमयं चन्द्रोदयं कृत्वा सकलां रात्रि ज्योत्स्नामयीं विधाय चतुरो यामान् गगनतलमवगाह्य सर्वलोकसमक्षं प्रत्यूषे पश्चिमायां गतोऽस्तमगात् । प्रभाते तेऽपि प्रेषिताः पुरुषाः समागत्य तथैव प्रोचुः । सर्वेषां महान् विस्मयोऽभूद् - अहो ! श्रीगुरूणां काऽपि महती शक्ति:; अहो ! जैनानां कोऽपि महामहिमा लोकोत्तर:- इति जनोक्तिरभूत् ।
✡
६६९०. अथ राजा तेषां विप्रादीनां तदेव छलवचनं स्मरन् श्रीगुरूणां पुरः प्रश्नमकरोत् - ‘भगवन् ! सत्स्वपि बहुदर्शनेषु ब्राह्मणानां कस्माज्जिनधर्मे महान् द्वेषः ? ' । तत्र श्रीगुरुः प्राह ‘राजन् ! पुरा प्रथमजिनो युगादौ विहरन् विनीतासन्ने पुरिमतालपुरे समवसृतः । भरतश्चक्री श्रीजिनस्याष्टानवतिभ्रातृसाधूनां चागमनं श्रुत्वा भक्ताद्यर्थं
१९७
जंतेण समं न य जंति बंधवा नेय मायपियपुत्ता । पत्ती य बलं विउलं, धणं व जं संचियं निच्चं ॥७॥ एसो सं (अ) सारधम्मो, पिओ सयत्थो जियाण सव्वाण । नाऊण जिणा एयं, इट्ठ मुत्तूण पव्वइया ॥८॥
जं जेण कयं कम्मं, सुहं व असुहं व तेण भुत्तव्वं । कम्मफलेणिह जीवा, कम्मे खविए तओ मुक्खो ॥९॥
Jain Education International
1. B इत्यादि धर्मदेशनां श्रु० । 2. B अत्र देवबोधिर्ल० । 3. B • मन्तादिपरिवृत्तो । 4. B समये । 5. B तेऽपि पूर्वप्रे० । 6. B इति लोके सर्वत्र जनो० । 7. B राजा देवबोधेस्तदेव । 8. B विनीतानगरीप्रत्यासन्ने । ★ 'श्रुत्वा भक्ताद्यर्थं खादिमादिशकटानि भृत्वा तत्र गतः । प्रभुं प्रणम्य धर्मदेशनां श्रुत्वा भक्ताद्यर्थं सा०' इत्येतत्पाठस्थाने B प्रतौ एतादृशः पाठो वर्तते
श्रुत्वा सार्धद्वादशस्वर्णकोटीप्रीतिदानं दत्त्वा विविधखादिमस्वादिमादिभृतशकटानि लात्वा सपरिकरः
For Private & Personal Use Only
15
www.jainelibrary.org