SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १५६ कुमारपालचरित्रसङ्ग्रहः ३३३. पात्रदाने फलं मुख्यं मोक्षसौख्यं कृषेरिव । पलालमिव भोगास्तु फलं स्यादानुषङ्गिकम् ॥ इति श्रुत्वा राजा श्रीगुरुमुखेन सम्यक्त्वमूलानि व्रतानि जग्राह । ३३४. एवं व्रतस्थितो भक्त्या सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु महाश्रावक उच्यते ॥ 88४९. सप्तक्षेत्रीस्वरूपमाहुः- नवीनप्रासादनिर्मापणं जीर्णोद्धारं तत्र महामहिम्ना पूजाकरणं गीतनृत्यवादित्रादिकलशपताकातोरणच्छत्रचामरभृङ्गारशालिभञ्जिकाचन्द्रोद्योतविचित्रचित्रशोभादिकरणम्, तत् प्रथमक्षेत्रं १. बिम्बं स्वर्णरूप्यमणिविद्रुमशैलमयम्, तद् द्वितीयक्षेत्र २. पुस्तकेषु श्रीजिनागमलिखापनम्, तच्छुश्रूषणम्, तृती० ३. चतुर्विधसङ्घ10 भक्तिश्चेति सप्तक्षेत्री । ३३५. यः सद्बाह्यमनित्यं च क्षेत्रेषु न धनं वपेत् । कथं वराकश्चारित्रं दुश्चरं स समाचरेत् ॥ एतदाकर्ण्य नवीनप्रासाद-जीर्णोद्धार- *जिनबिम्ब-पुस्तक-साधु-साध्वी-श्रावकश्राविकादिषु तेषु साधर्मिकवात्सल्यादिभक्तिषु पुण्यकृत्येषु* सादरोऽभूत् । 1588५०. अथ राजा श्रीजिनोक्तनवतत्त्वान्यपृच्छत् । श्रीसूरयः प्राहुः- तत्रेदं जीवस्वरूपम्३३६. जीवो अणाइनिहणो अविणासी अक्खओ धुवो निच्चो । दव्वट्ठयाइ निच्चो परियायगुणेहि अ अणिच्चो ॥ ३३७. कालो जहा अणाई अविणासी होइ तिसु वि समएसु । तह जीवो वि अणाई अविणासी तिसु वि कालेसु ॥ ३३८. अक्खयमणंतमउलं जह गयणं होइ तिसु वि कालेसु । तह जीवो अविणासी अवट्ठिओ तिसु वि कालेसु ॥ 20 1. B मोक्षः शस्यं कृ० । 2. B ०करणं प्रासादे, तत् । 3. B अथान्यदा राजा । ★ 'जिनबिम्ब०' इत्यत आरभ्य 'पुण्यकृत्येषु' इत्येतदन्तपाठस्थाने-जिनबिम्बाऽऽगम-साधुसाध्वीभक्तिसाधर्मिकवात्सल्यादिषु B प्रतौ । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy